SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ MONamaste २/A. पचमी स्तुतिः । HINDI श्रीनेमिः पञ्चरुपत्रिदशपतिकृतप्राज्यजन्माभिषेक-, श्वञ्चत्पञ्चाक्षमत्तद्विरदमदभिदा पञ्चवक्त्रोपमान: । : निर्मुक्त: पञ्चदेह्याः परमसुखमयः प्रास्तकर्मप्रपञ्च:, . कल्याणं पञ्चमीसत्तपसिं वितनुतां पञ्चमज्ञानवान् वः ॥१॥ अन्वयः-पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेक:, चञ्चत्पञ्चाक्ष-मत्तद्विरदमदभिदा पञ्चवक्त्रोपमान:, प्रास्तकर्मप्रपञ्चः, पञ्चमज्ञानवान्, पञ्चदेह्याः, निर्मुक्त:, परमसुखमय:, श्रीनेमिः, व:, पञ्चमीसत्तपसि कल्याणं, वितनुताम् । व्याख्या - पञ्चरुपत्रिदशपतिकृतप्राज्यजन्माभिषेक:, पञ्च तत्सङ्ख्यापरिमितानि रूपाणि छत्रचामरद्वयवज्रभगवद्धारकस्य रूपाणि शरीराणि उत्तरवैक्रियाणि यस्य स पञ्चरुप: तिस्रः त्रिसंख्यका: जन्म-सत्ताविनाशाख्या: दशा: अवस्थाः येषां ते त्रिदशा: देवास्तेषां पति: स्वामी त्रिदशपति: पञ्चरुपश्चासौ त्रिदशपति: पञ्चरुपत्रिदशपतिः, प्राज्य: प्रकृष्ट: जन्मन: जननस्य अभिषेक: स्नात्रविधिविशेष: ॥ पंच स्तोत्राणि ॥ ७०
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy