________________
•
यस्य स पञ्चवक्त्रः, मुखेन चतुर्भिः पादैश्च योद्धृत्वात् अथवा पञ्च ते इति पञ्च विस्तारवत्विस्तीर्णं वक्त्रं मुखं यस्य स चञ्चत्पञ्चाक्षमत्तद्विरदमदभिदा पञ्चवक्त्रोपमान: । प्रास्तकर्मप्रपञ्चः कर्मण: ज्ञानावरणादे: प्रपञ्चनमिति प्रपञ्चः विस्तारः इति कर्मप्रपञ्चः प्रास्त: समूलं नष्टः कर्मप्रपञ्चः यस्य स प्रास्तकर्मप्रपञ्चः सकलकर्मरहितः, अत एव पञ्चमज्ञानवान् पञ्चमं च तत् ज्ञानं पञ्चमज्ञानं केवलज्ञानं तदस्ति अस्य इति पञ्चज्ञानवान् केवली अत एव पञ्चदेया: पञ्चानां पञ्चसङ्ख्याकानाम् औदारिक- वैक्रियाऽऽहारकतैजस-कार्मणस्वरूपाणामित्यर्थः । देहानां शरीराणां समाहारः पात्रादिगणपठितशब्दवर्जित- स्याकारान्तोत्तरपदस्य समाहारद्विगुसमासे स्त्रीत्वं ततश्च 'द्विगोः समाहारात् ' (२/४/२२) इत्यनेन ङी पञ्चदेही तस्याः तथा निर्मुक्तः रहितः अत एव परमसुखमयः परमं उत्तमं च तत् सुखं आह्लादविशेषः परमसुखं प्रकृतिर्यस्य स परमसुखमयः प्रकृतेर्मयट्' (१|३|१) इत्यनेन मयट् प्रत्ययः । श्रीनेमिः श्रिया लोकोत्तरसम्पत्या युक्त: नेमि: नेमिनाथः इति श्रीनेमि: द्वाविंशतितमस्तीर्थंकरः वः युष्माकं पञ्चमीसत्तपसि सच्च तत्तपः पञ्चम्याः ॥ पंच स्तोत्राणि ॥
૭૨