________________
जि. कं ब्रह्मचर्यं पालयतीति कपाली परब्रह्मत्वं सिद्धानां राद्धान्ते प्रोक्तत्वात्, पुन: किंविशिष्टः महांश्चासावीशश्च महेश: परमैश्वर्यभोक्तृत्वात्, पुन: किंविशिष्टः महत् व्रतमस्मिन्नस्तीति महाव्रती, पुन: किंविशिष्ट: उमेश उमाया: केवलज्ञानकेवलदर्शनरूपाया: पार्वत्या ईश: स्वामी । पुनः . किंविशिष्टः जि. य: अष्टमूर्ति: मतः सिध्धानां अष्टकर्मक्षयात् प्रादुर्भूता अष्टौ गुणाः, ते के
“अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात्" ॥ १ ॥ क्षायिके शुद्धसम्यक्त्व-चारित्रे मोहनिग्रहात् । अनन्तसुखवीर्ये च वेद्यविघ्नक्षय: क्रमात् ॥ २ ॥ आयुष: क्षीणभावत्वात् सिद्धानामक्षया स्थिति: । नामगोत्रक्षयादेवामूर्त्तानन्तावगाहता ॥ ३ ॥
इत्यष्टगुणा एवाष्टमूर्तिः, पुन: किंविशिष्ट: शिवं कल्याणं तदात्मकत्वात् शिव: लोकानां शिवकारित्वात्, पुन: किं. भूतनाथ: भूयन्ते स्म इति भूता: सर्वे प्राणिन: तेषां नाथ: योगक्षेमकारित्वात्, स एकः परात्मा जिनेन्द्रः मे मम गतिरस्तु । इति ॥ ६ ॥
॥ पंच स्तोत्राणि ॥ १६