________________
-परमानन्द
इह सर्वेणैव संसारमध्यमध्यासीनेन जन्तुना नारकतिर्यग्नरामरगतिनिबन्धनविविधशरीरमानसानेकदुःखोपनिपातपीडितेन पीडानिर्वेदतः संसारं परिजिहीर्षया जन्मजरामरणशोकाद्यशेषोपप्लवाऽसंस्पृश्य-परमानन्दरूपनिःश्रेयसपदमधिरोदुकामेन तदवाप्तये स्वपरसममानसीभूय श्रीशासनाधीश्वरवर्द्धमानस्य गुणोत्कीर्तनरूपा स्तुति: कर्त्तव्या । तत: श्रीसिद्धसेनदिवाकरेण श्रीमदुज्जयिन्यां पुर्यां विक्रमनृपस्याग्रे महाकालेश्वरपुरतः पूर्वं द्वात्रिंशिका कृता तस्या अर्थ किञ्चिल्लिख्यते ।
तत्रादौ प्रथमकाव्यं । इंह स्तुतिधा (१) प्रणामरूपा (२) असाधारणगुणोत्कीर्तनरूपा च । तत्र प्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्यगम्या तथानन्तरमेव वक्ष्यते । असाधारणगुणोत्कीर्तनरूपा च पुनर्द्धिधा (१) स्वार्थसम्पदभिधायिनी (२) परार्थसम्पदभिधायिनी च, तत्र स्वार्थसम्पद्, परार्थं प्रति समर्थो भवति इति प्रथमत: स्वार्थसम्पदमाहसदेति स एक: जिनेन्द्रः मे मम गति: गम्यते प्राप्यते बुध्यते ज्ञायते स्वरूपतत्त्वमनयेति सा गतिर्ध्ययस्वरूपज्ञापको भवेत्, जिना: सामान्यकेवलिनस्तेषु इन्द्र इव इति जिनेन्द्र:,
॥ पंच स्तोत्राणि ॥ २