________________
लक्षणं च काव्यं च नाटकं च कथा च चम्पूश्च इत्येतेषां इतरेतरयोगद्वन्द्वः इति लक्षणकाव्यनाटककथाचम्प्य: तासां समालोकने सम्यगध्ययने लक्षणकाव्यनाटककथाचम्पूसमालोकने क्वायासं-कुत्सित-परिश्रमम् मुधा व्यर्थं किं कथं वितनोषि विस्तारयसि एतेन जडबुद्धेः लक्षणकाव्यादिशास्त्राध्ययनपरिश्रम: कुत्सित: यतश्च तेन न भविता तस्य काव्याद्यवगंमो नात्महितं च इति निरर्थक एव तदायास: तत् तादृशः श्रमो नैव कर्तव्य: इति भाव: ननु तर्हि अध्ययनं परित्यज्य किं कर्तव्यमिति सुहृद्भूत्या श्रीमन्त एव प्रतिपादयन्तु यदहमाचरिष्ये इत्यत आह परार्धेन भक्त्येति-अनेन पूर्वसूक्तप्रदर्शितेन मन्त्रराजमहसा मन्त्राणां राजा मन्त्रराज: महः तेजः मन्त्रराजाभिन्नं महः तेन मन्त्रराजमहसा अनिशं प्रतिदिनं भक्त्या भक्तिपूर्वकं भारती सरस्वती देवी आराधय-पूजय तन्मन्त्रजपपूर्वकं तस्या अनुचिन्तनं कुरु इति येन. आराधनेन त्वं झटिति कविताया: विताने-विस्तारे, सविता-सूर्य: कवितावितानसविता भूत्वा अद्वैतप्रबुद्धायसे अद्वितीयप्रबोधवान् भविष्यसि यथा सूर्यः अनन्यप्रकाशं विस्तारयति तथा त्वमपि भारतीप्रसादमासाद्य कवितानिर्माणे सम्यगवबुद्धो भविष्यसीति । 'सूर्या
awwaminiummmmmmmm ११३ अनुभूतसिद्धसारस्वतस्तव: