________________
व्याख्या-रे रे इति - रे रे बालिश ! भो भो बाल ! शीघ्रसम्बोधनाय वीप्सा मन्त्रमहिमाख्यापनाय च, अप्राप्तशास्त्रपरिशीलनजन्यबोधप्रकर्षो-बालः, नम्र अधोविहितं वक्त्रं-मुखं तदेवाम्बुजं कमलं येन स: नम्रवक्ताम्बुजः, पुस्तक एव दत्तदृष्टि: सन्, लक्षणेति-लक्षणं लक्ष्यतेऽवबुध्यते शब्दसंसिद्धिर्येन तल्लक्षणम् व्याकरणशास्त्रम्, काव्यम् कवति मधुरं वर्णयतीति भगवद्गुणग्रामाभिमुखकारकचेतोद्रावकपदसमूहम्-काव्यम्, नाटकं-नट्यतेऽभिरूप्यते इति नाटकम् विख्यातवृत्तं नान्दी-पूर्वरंग-प्रस्तावना-सन्धिपञ्चकपञ्चाद्यङ्कप्रभृतिसमेतम् रङ्गमण्डपे प्रयोगोपयोगित्वादृश्यम्काव्यविशेषं नाटकम् कथा कथ्यते उच्यते पूर्वापरसन्दर्भो यया सा कथा तत्र वर्णनीयवर्णनं साहित्यदर्पणे यथा“कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् । क्वचिदत्रभवेदार्या क्वचिद्भक्त्रापवक्त्रके ॥ आदौ पद्यैर्नमस्कारः खलादेवृत्तकीर्तनम्” ।६-३३२-३३३।
सा च तिलकमञ्जरीप्रमुखा. चम्पू: पद्यमिश्रितं गद्यकाव्यम्
"गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते” इत्युक्ते:
॥ पंच स्तोत्राणि ॥ ११२