________________
श्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणलक्षितं शार्दूलविक्रीडितं छन्दः प्रकृते ॥ ११ ॥
एवं तदीयाराधनप्रकारं प्रदर्श्य ततो रक्षणमभिलषन् स्तौतिचञ्चच्चन्द्रमुखी प्रसिद्धमहिमा, स्वाच्छन्द्यराज्यप्रदा-, नायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्तितः । देवी संस्तुतवैभवा मलयजा-लेपाङ्गरङ्गद्युतिः, सा मां पातु सरस्वती भगवती, त्रैलोक्यसंजीवनी || १२ || व्याख्या- चञ्चदिति चञ्चत् चलायमानः चन्द्रः शशी मुखम् आस्यम् चलायमानो यश्चन्द्रः तस्य मुखमिव मुखं यस्याः सा चञ्चच्चन्द्रमुखी शरदिन्दुवदना इति यावत्, प्रसिद्धमहिमा-प्रसिद्ध: दिगन्तेषु ख्यातः महिमा प्रभावो यस्याः सा प्रसिद्धमहिमा विश्वविख्यातानुभावा, स्वाच्छन्द्यराज्यप्रदा स्वाच्छन्द्यं स्वतन्त्रतारूपम् राज्यम् साम्राज्यम् भेदादिनीतिचतुष्टययुक्तविभुविभूतिः स्वाच्छन्द्यराज्यस्य प्रकर्षेण दानशीला या सा स्वाच्छन्द्यराज्यप्रदा, अत एव नायासेनेति आयासः क्लेशः यत्नो वा तेन आयासेन न इति निषेधार्थकमव्ययम् तथा च आयासेन न किन्तु अनायासेन क्लेशेन विना, प्रमोदेनेति यावत्, भक्तितः भक्त्या स्वविशिष्टात्मानुकूलात्मीयवर्तनम् -भक्तिः
॥ पंच स्तोत्राणि ॥ ११४