________________
सर्वोत्कर्षेण वर्तते अत्र व्याजेनागमावतारक्रमोऽपि दर्शितः । तच्चैवम् प्रथमं जिनवरैः श्रुतमुपदिष्टम् तच्च- द्वादशाङ्गीरूपेण गणधरैर्ग्रथितम् तदनु आचार्यैस्तत् निर्युक्ति-भाष्य - चूर्णि - वृत्ति प्रमुखैरलंकृत्य विस्तारितम् इति । श्लोकेऽत्र रूपकालंकारः ॥ ३ ॥
प्रथमश्लोकद्वये सरस्वत्या दर्शनं याचितम्, प्रसन्ना सादर्शनमपि ददाति, तथापि यदि सा कालीमहाकालीवत् भयङ्कररूपा चेत् बालानां यदीयदर्शनं प्रमोदकरं तु न, प्रत्युत भयङ्करं भवेदिति तदीयसौम्यंस्वरूपं वर्णयति ॥ अमृतदीधितिबिम्बसमाननां, त्रिजगतीजननिर्मितमाननाम् । नवरसामृतवीचिसरस्वती', प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥
व्याख्या-अमृतेति-अमृतसदृशी शीतला दीधिति: किरणं यस्य स अमृतदीधितिश्चन्द्रः तस्य बिम्ब: वर्तुलाकृति: तत्समं सदृशं आमनं वदनं यस्याः सा तथोत्का तां अमृतदीधितिबिम्बसमाननाम् शशिसमसौम्यवदनामिति यावत् अत्र यद्यपि सूर्यबिम्बसमाननां इत्युक्तेः तत्र तेजस्वितान्धकारनाशकत्वादिगुणानां सूचनं भवेत् तथापि अतितेजस्विनस्तीव्ररुचेः सूर्यस्य दर्शनं दुष्करं, सुकरं पुनः आह्लादकस्य तेजस्विनश्चन्द्रमसो दर्शनं, प्रकृते च दर्शनस्य प्राधान्यात् तथा वर्णितम् । यं यं सा दर्शनं ददाति ते सर्वेऽपि १०१ अनुभूतसिद्धसारस्वतस्तयः