________________
तस्या बहुमानं कुर्वन्तीति तस्या विश्वमाननीयत्वं दर्शयति त्रिजगतीति-त्रयाणां जगतां समाहार: त्रिजगती तद्धर्तिनो ये जनास्ते त्रिजगतीजनास्तैर्निर्मितं सम्पादितं मानमेवमाननं सन्मानं यस्याः सा त्रिजगतीजन-निर्मितमानना, ताम् तथोक्ताम् । नवरसामृतवीचिसरस्वतीम् नव नवसंख्याकाश्च ते रसा: विभावानुभावसंचारि-भावैरभिव्यक्ताः स्थायिभावा: नवरसा:
"शृंगारहास्यकरुण-रौद्रवीरभयानका: ।
बीभत्सोऽद्भुत इत्यष्टौ रसा: शान्तस्तथा मतः” । इत्युक्ताः
ते एव अमृतं नवरसामृतं तस्य वीचयस्तरङ्गाः नवरसामृतवीचयः, सरो जलं तद्वर्तते यस्यां स सरस्वती नदी नवरसामृतवीचिभ्यः । सरस्वती या सा ताम् नवरसामृतवीचिसरस्वतीम् नवरसास्वादजन्यपरमानन्दसन्दोहसम्पादिकामिति यावत् । सरस्वत तदभिधानां वाग्देवीम, प्रमुदितः प्रसन्नचेताः सन् प्रणमामि नमस्करोमि अत्र प्रपूर्वकस्य नमते: स्वापकृष्टत्वप्रकारकबोधानुकूलव्यापारोऽर्थः। अत्रोपमायमकालंकारौ ॥ ४ ॥ विततकेतकपत्रविलोचने !, विहितसंसृतिदुष्कृतमोचने ।
॥ पंच स्तोत्राणि ॥ १०२