SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ . निर्मलीकरोतु इति भावः । युग्ममेतत् श्लोकद्वयसम्बद्वत्वात्तदुक्तम् 'द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्, तदुर्ध्वं कुलकं स्मृतम्' ||१|| इति । स्तोत्रेऽस्मिन् नवश्लोकपर्यन्तं द्रुतविलम्बितम् छन्दः, तल्लक्षणं यथा- द्रुतविलम्बितमाह नभौ भरौ ॥ २ ॥ इति जिनपतिप्रथिताखिलवाङ्मयी, गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका, विजयते अगति श्रुतदेवता ॥३॥ व्याख्या - जिनपतीति - जिनपतिस्तीर्थंकरः तेन प्रथितं विस्तारितम्, यत् अखिलं सम्पूर्णं वाङ्मयं आगमं तत् जिनपतिप्रथिताखिलवाङमयम्, नत्स्वरूपा या सा जिनपतिप्रथिताखिलवाङ्मयी अर्थात् जिनवरागमाधिष्ठात्रीति, गणधराननमण्डपनर्तकीति - गणधराः तीर्थकृतो मुख्यशिष्याः गणभृतः तेषां आननानि मुखानि तान्येव मण्डपानि नृत्यस्थानानि तत्र नर्तकी नृत्यकारिणी । गुरुमुखाम्बुजखेल हंसिकेति गृणाति उपदिशति धर्मं, गिरति नाशयति वा अज्ञानं इति गुरुः आचार्यादिः तस्य मुखं वदनं तदेवाम्बुजं कमलं तत्र खेलने क्रीडने हंसिका मराली, श्रुतदेवतासरस्वतीदेवी जगति ब्रह्माण्डभाण्डोदरे भुवने विजयते ॥ पंच स्तोत्राणि ॥ १००
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy