________________
सा कुत: सिञ्चतीत्याह-अमृतेति अमृतं सुधा तेन पूर्णं पूरितं यत् कमण्डलुः जलपात्रविशेष: तस्य हारिणी उद्वहनशीलवती अर्थात् वामहस्तधृतामृतकमण्डलुरिति, अनेन सेवकास्तामाराध्य ततोऽमृतं प्राप्य सचेतना भवन्तीति तदुचितम् । नहि जगति पीयूषमन्तरेणाधिकं विद्यतेऽन्यत्, इति सर्वेऽपि तं सेवन्ते तदेवाह-त्रिदशेति-त्रिदशा: देवाः, दानवा: दैत्या:, मानवा: वाञ्छन्ति अनन्यचेतसा, तत्तु सरस्वत्याः पार्श्वेऽस्तीति ततस्तं प्राप्तुं सर्वेऽपि तां मनुष्याः, त्रिदशाश्च दानवाश्च मानवाश्चेति त्रिदशदानवमानवाः, तैः सेविता पर्युपासिता या सा त्रिदशदानवमामनवसेविता । भगवती-ज्ञानवती यद्यपि भगशब्दस्यभगोऽर्क १ ज्ञान २ माहात्म्य ३ यशो ४ वैराग्य ५ मुक्तिषु ६ रूप ७ वीर्य ८ प्रयत्नेच्छा ९-१० श्री ११ धर्मैश्वर्य १२-१३ योनिषु १४ ॥ १ ॥ _ इत्यनेन चतुर्दशार्थाः, तेषु बहवोऽर्थाः संभवन्ति अत्र तथापि सरस्वत्या ज्ञानगुणस्यैव प्राधान्यात् प्रकृते भगशब्दो ज्ञानार्थको ग्राह्यः । परमा सर्वोत्कृष्टा सरस्वती शारदादेवीति विशेष्यम्. एव सैव नान्या अर्थात् स्वस्वरूपैव नतु प्रतिकृतिरूपा, मम मदीयं नयनाम्बुजम् नेत्रकमलम्, सदा सर्वकालं पुनातु पवित्रयतु । दर्शनं दत्वा चक्षुषी
" ८८
अनुभूतसिद्धसारस्वतस्तव: