________________
तु दूरं प्रत्युत विपरीतफलं ददाति, यदुक्तं नैषधेऽपि * त्वया निधेया न गिरो मदर्था, क्रूधा कदुष्णे हृदि नैषधस्य। पित्तेन दूने रसने सिताऽपि, तिक्तायते हंसकुलावतंस ! ॥
इति प्रमोदितावस्थायामेव प्रार्थनं कर्तव्यमिति भाव:
द्वितीयपादेन सरस्वत्या: स्वस्थमनोरमावस्था बोधिता, तदवस्थायां च भक्तैः सा प्रार्थिता, तदनु सा किं करोति ? इति जिज्ञासायामाह प्रणतेति-प्रणता:-नम्रीभूता: ये जनास्ते एव भूमिरुहा:-वृक्षाः तेभ्य:-अमृतं पीयूषं सारयति सिञ्चति या सा प्रणतभूमिरुहामृतसारिणी भक्तजनवाञ्छित-पुरयित्रीति तदर्थः, प्रवरदेहविभाभरधारिणी-प्रवर: श्रेष्ठः मनोज्ञ इति यावत् यो देहः तनुः तस्य या विभा-कान्ति: तस्यां भर: समूहः तं धारयति दधातीति प्रवरदे हविभाभर-धारिणी देदीप्यमानशरीरेति यावत् ॥ १ ॥
प्रथमश्लोकस्य तृतीयपादे उक्तं यत् प्रणतभूमिरुहामृतसारिणीति, यदि तस्याः पार्श्वे अमृतमेव न स्यात् तदा
* (अर्थ:) हे हंसकुलावतंस ! हे मरालकुलनायक ! क्रोधेनेषत्तप्तेऽपि नलस्य हृदये त्वया मदीयवचनानि न प्रयुक्तत्यानि यत् पित्तेन कलुषितायां जिह्वायां शर्कराऽपि तिक्तानुभवं उत्पादयति । इति दमयन्त्या हंस प्रति-उक्तिः
॥ पंच स्तोत्राणि ॥ ८८