________________
| २/B एकादशीस्तुतिः ।
श्रीभाग् नेमि भाषे जलशयसविधे स्फुर्तिमेकादशीयां, माद्यन्मोहावनीन्द्रप्रशमनविशिखः पञ्चबाणाचिरणः । । मिथ्यात्वध्वान्तवान्तौ रविकरनिकरस्तीव्रलोभाद्रिवज्र, श्रेयस्तत्पर्ववस्ताच्छिवसुखमिति वा सुव्रतश्रेष्ठिनोऽभूत्॥१॥ ___अन्वयः- माद्यन्मोहावनीन्द्रप्रशमनविशिख:, पञ्चबाणाचिरणः, मिथ्यात्वध्वान्तवान्तौ रविकरनिकरः, तीव्रलोभाद्रिवजं, श्रीभाग, नेमिः, जलशयसविधे, एकादशीयां स्फुर्ति, बभाषे, (किं बभाषे)यत् सुव्रतश्रेष्ठिन:, शिवसुखं अमृत, इति वा तत् पर्व व: श्रेयः स्तात् । _ व्याख्या- माद्यन्मोहावनीन्द्रप्रशमनविशिख:- माद्यन्मदं प्रकुर्वन् य: मोहः मतेः भ्रान्तिकारकः स एव अवन्या पृथिव्या इन्द्रः स्वामीति माद्यन्मोहावनीन्द्रः तस्य प्रशमने प्रशान्तकरणविधौ विशिख: बाण इति माद्यन्मोहावनीन्द्रप्रशमनविशिख: मदयुक्तस्य मोहराजस्य मूलत: दूरीकरणे बाणसदृशः । पञ्चबाणार्चिरर्ण:- पञ्चपञ्चसङ्ख्यका: । 'अरविन्दमशोकं च चूतं च नवमल्लिका ।
॥ पंच स्तोत्राणि ॥ ८६