________________
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥ इत्यमरः ।
बाणा: शरा: यस्य सः पञ्चबाणः तस्य अर्चिः अग्निशिखा, तस्यां अर्णः जलमिति पञ्चबाणार्चिरर्णः कामाग्निप्रशान्तविधौ जलसदृशम् मिथ्यात्वध्वान्तवान्तौ मिथ्यात्वं विपरीतं ज्ञानं तदेव ध्वान्तं तमः इति मिथ्यात्वध्वान्तं तस्य वान्ति: नाश: तस्यां, तथा रविकरनिकर: रवेः सूर्यस्य करा: किरणानि इति रविकरा: तेषां निकर: समूहः रविकरनिकर: सूर्यकिरणसमूहसदृशः, तीव्रलोभाद्रिवजं लोभ: अधिकाधिकप्राप्तीच्छा स चासौ अद्रिः पर्वतः इति लोभाद्रिः तीव्रः ‘उत्कट: स चासौ लोभाद्रिः इति तीव्रलोभाद्रिः, तस्मिन् वज्रम् कुलिशमिव महालोभपर्वतभेदने वजसदृशः, श्रीभाक् श्रियं बाह्याष्टमहाप्रातिहार्यस्वरुपाभ्यन्तरानन्तज्ञानादिलक्ष्मी भजतीति श्रीभाक् नेमि: द्वाविंश: तीर्थंकरः, जलशयसविधे जले शेते इति जलशय: कृष्ण: तस्य सविधं समीपं इति जलशयसविधं तस्मिन् तथा एकादशीयां एकादश्या इयं एकादशीया तां तथा मृगशीर्षसितैकादशी पर्वसम्बन्धिनीं स्फुर्ति माहात्म्यं बभाषे कथयाञ्चक्रे, किं बभाषे यत् सुव्रतश्रेष्ठिन: तदाख्यमहापुरुषस्य
८७ एकादशीस्तुति