SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सर्वलघुक्षुल्लकप्रतरः, एषा क्षुल्लकप्रतरप्ररूपणा । तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारभ्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतरास्ते उपरितनक्षुल्लकप्रतरा भण्यन्ते, तेषामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतरः तेऽधस्तनक्षुल्लकप्रतराः, तान् यावदधः क्षेत्रत ऋजुमतिः पश्यति । अथवा अधोलोकस्योपरितनभागवर्तिनः क्षुल्लकप्रतरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्त्तिप्रतरादारभ्य तावदवसेया यावत्तिर्यग्लोकस्यान्तिमोऽधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधो भागवर्तिनः क्षुल्लकप्रतरा अधस्तना उच्यन्ते, तत उपरितनाश्चा रस्तनाश्च उपरितनाधरस्तनाः, तान् यावद् ऋजुमतिः पश्यति । अन्ये त्वाहुः अधोलोकस्योपरिवर्तिन उपरितनाः, ते च सर्वतिर्यग्लोकवर्तिनो यदिवा तिर्यग्लोकस्याऽधो नवयोजनशतवर्तिनो द्रष्टव्याः, ततस्तेषामेवोपरितनानां क्षुल्लकप्रतराणां सम्बन्धिनो ये सर्वान्तिमाधस्तनाःक्षुल्लकप्रतरास्तान् यावत् पश्यति, अस्मिंश्च व्याख्याने तिर्यग्लोकं यावत्पयतीतित्यापाद्यते तच्च न युक्तम्, अधोलौकिकग्रामवर्त्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदप्रसंगात् । अथवा अधोलौकिकग्रामेष्वपि संज्ञिपञ्चेन्द्रियमनोद्रव्याणि परिच्छिनत्ति, यत उक्तम्“इहाधोलौकिकान् ग्रामान्, तिर्यग्लोकविवर्त्तिनः । मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्त्तिनामपि ॥" तथा उड्ढं जाव इत्यादि-ऊर्ध्वं यावज्ज्योतिश्चक्रस्योपरितलस्तिर्यग्यावदन्तो मनुष्यक्षेत्रे मनुष्यलोक पर्यन्त इत्यर्थः । " इस विषय में चूर्णिकार निम्न प्रकार से लिखते हैं उवरिमहेट्ठिल्लाई खुड्डागपयराइं इति इमस्स भावणत्थं. इमं पण्णविज्जइतिरियलोगस्स उड्ढाहो अट्ठारसजोयणसइयस्स बहुमज्झे एत्थ असंखेज्ज अंगुलभागमेत्ता लोगागासप्पयरा अलोगेण संवट्ठिया सव्वखुड्डय़रा खुड्डागपयर इति भणिया, ते य सव्वओ रज्जुप्पमाणा तेसिं जे य बहुमज्झे दो खुड्डागपयरा, तेसिं पि बहुमज्झे जम्बूद्दीवे रयणप्पभपुढवि बहुसमभूमिभागे मन्दरस्स बहुमज्झदेसे एत्थ अट्ठप्पएसो रुयगो, जत्तो दिसिविदिसिविभागो पवत्तो, एवं तिरियलोगमज्झं, एतातो तिरियलोगमज्झाओ रज्जुप्पमाण खुड्डागप्पतरेहिन्तो उवरि तिरियं असंखेयंगुलभागवुड्ढी उवरिहिंतोऽवि अंगुलसंखेयभागारोहो चेव, एवं तिरियमुवरिं च अंगुलअसंखेयभाग वुड्ढीए ताव लोगवुड्ढी णेयव्वा जाव उड्ढलोगमज्झं, तओ पुणो तेणेव कमेणं संवट्टो कायव्वो जाव उवरिं लोगन्तो रज्जुप्पमाणो, तओ य उड्ढलोगमज्झाओ उवरिं हेट्ठा य कमेण खुड्डागप्पयरा भाणियव्वा जाव रज्जुप्पमाणा खुड्डागप्पतरे त्ति, तिरियलोगमज्झरज्जुप्पमाणखुड्डागप्पतरेहिन्तोऽवि हेट्ठा 242
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy