SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . गणोऽपि ववृधेतमां गणपतेरपेक्षापरो, रसाम्बरनिधीन्दुसंमिततमेऽब्दके (१६०६) सोऽप्यभूत् । त्रिकालनिधिभूमितेऽ (१६३३) धितहितां स दीक्षां गुरो, द्विसिद्धिनिधिभूमिते (१९८८) सुरपुरीमयासीदसौ || ६ || तच्छिष्यो गणनीगणेयगुणिनां शश्वत्सतामग्रणीः, स श्रीमान् स्थविरोऽजनीन्दुनयनाङ्केन्दूपमे (१६२१) वत्सरे || दीक्षां वेद सरस्वदकधरणीतुल्येऽ (१६४४) ग्रहीदाग्रहात्, सच्छिष्यो जयरामदासजिदसावद्यापि विद्योतते || १० ॥ तच्छिष्यः . प्रथितप्रबोधमधुरः सद्वृत्तिसद्वर्तको, भेजे जन्म पयोधिनेत्रनिधिभूसंख्येऽब्दके (१६२४) सत्कुले | मुन्यध्यङ्कधरामितेऽ (१६४७) तिमतिमान् दीक्षां दधारादरात्, शालिग्राममुनिः सदा जयजनिर्जीव्याच्चिरं सन्मणिः ॥ ११ ॥ आगमोद्धार संस्कार-सार-लालसमानसः । मेधासिन्धून-दीनबन्धून् आत्मारामो नमत्यमून् ॥ १२ ॥ . आत्म-वृत्तम् पांचालदेशे ऋषिभूमिख्याते, 'राहों' प्रसिद्ध नगरे समृद्धे । .. अङ्काग्नितत्त्वेन्दु (१६३६) मिते हि वर्षे, जातो ह्यसौ भाद्रपदाख्यमासे || द्वादश्यां तिथौ श्रीमन्मनसाराम - पितुहे । माता परमेश्वरी ह्यासीत ह्यात्मारामस्य सन्मते : ॥ चन्द्रभूताङ्कभूम्यब्दे (१६५१) मुनिदीक्षां गृहीतवान् | शालिग्राम - मुनेरन्ते - वासीत्यभवन्मुनीश्वरः ॥ अङ्करसतत्त्वचन्द्राब्दे (१६६६) नगरेऽमृतसराभिधे | पञ्चनदाचार्यः श्रीमान् सोहनलालो मुनीश्वरः || उपाध्याय - पदं तस्मै ददति स्म जितेन्द्रियः । उपाध्यायपदं प्राप्य कृतमागम मन्थनम् ॥ मुनिचर्यानुरक्तेन तेनाचार्यपदं परम् । प्राप्तं त्रिनभाकाश-नेत्राब्दे (२००३) विक्रमस्य वै || श्री उत्तराध्ययन सूत्रम् / 53 / प्रशस्तिः
SR No.002202
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherJain Shastramala Karyalay
Publication Year2003
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy