________________
प्रशस्तिः
तत्रेयं पद्यद्वयेन वागवतारणा प्रपञ्चसञ्चारिणी पञ्चमेऽत्र काले कराले कलयन्ति लोकाः । स्वत्वेषु वित्तेषु सुतेषु भिक्षां सर्वे न शिक्षा न शुचिं न दीक्षाम् ॥ १ ॥ स्पृहणीयगुणा अगण्यपुण्यास्तरुणत्वेऽपि दधुस्तपस्वितां ये | रमणीयहृदां विदां तदेषां स्मरणं सवृजिनैकवर्जनं हि ॥ २ ॥ आस्ते पञ्चनदः शुभो जनपदो दूरीकृतान्तर्गदः, प्रेमाट्टैकगदागदः प्रकृतितः प्रोत्तुङ्गचित्सम्मदः । अत्राऽवातरदक्षिषड्वसुधरासंख्यामिते (१८६२) वत्सरे, निस्तन्द्रोऽमरसिंहजिन्नरवरश्चञ्चप्रपञ्चात्परः ॥ ३ ॥ वस्वङ्कवस्विन्दुमिते (१८६८) शुभेऽब्दे, नामाभिधेयं विदधत्सदर्थम् नरेषु चन्द्रोऽमरचन्द्रताँ सः, मुनीन्द्रतां चारुतरां बभार || ४ ||
आचारागमतीर्थरक्षणपरा तच्चातुरी सा तुरी, वेमाऽसौ यशसां चयं मृदुतरं श्वेतं व्यधादम्बरम् तेने तेन विशेषवर्णरुचिकृद्देशोऽप्यशेषो निजः,'
पञ्चापः प्रहतप्रपञ्चनिचयः श्वेताम्बरः संवरः ॥ ५ ॥ . कालक्षोणिनिधीन्दुसम्मिततमे (१६१३) वर्षे विहारक्रमाद्, इन्द्रप्रस्थपुरे सुमारवसतां पूज्याः कनीरामकाः अस्मै पूज्यपदं तदैव ददिरे श्राद्धे समिद्धोद्धवे, पूज्यं पूज्यमथो विधाय दधिरे शब्दाश्रयं द्विर्विधम् ॥ ६ ॥ वसुकालनिधीन्दुमिते (१६३८) विषमे, नृपविक्रमहायनकेऽयमगात् सुरसम-यतोऽमरसिंहमुने रुचिता रुचिरोच्चतरैव गतिः ॥ ७ ॥ मोतीराममुनिस्ततोऽभवदसावष्टादशाशीतिके वर्षे लब्धजनिः खभूमिनिधिभूसंख्येऽब्दके (१६१०) सव्रती । अङ्कत्र्यङ्कधरामितेऽ (१६३६) भवदयं पूज्योऽतियोग्यः सतां, सिद्धीशास्यनिधीन्दुसम्मिततमे (१६५८) वर्षे दिवं चाऽप्यगात् || ८ |
श्री उत्तराध्ययन सूत्रम् / 52 | प्रशस्तिः