________________
चतुर्विधेन संघेन 'सादड़ी' नगरे शुभे । घोषितः श्रमणसंघस्य, आचार्यः श्रमणाधिपः || निधिनभव्योमनेत्राब्दे (२००६) विक्रमस्य नृपस्य वै । निगदन्तो जयेच्छब्दं सर्वे हर्षमुपागताः ॥ शिष्य-परम्परा
खजानचन्द्राभिधस्तस्य शिष्यः संयम- सागरः । ज्ञानचन्द्रो ज्ञाननिधिः, सुरलोकं गतौ हि तौ ॥ हेमचन्द्रो मुनिश्चापि मुनिर्ज्ञानाभिधोऽपि च याभ्यां शास्त्रसिन्धोस्तु, गहनं मन्थनं कृतम् ॥ रत्नमुनीति विख्यातः शिष्यः सेवापरायणः । श्री मनोहरमुनिश्चापि ख्यातः 'उत्कलकेसरी' | अन्ये च बहवो मुनयस्तस्य शिष्यत्वमाप्नुवन् । संयमसिन्धौ निमज्जन्तः सन्तः सत्य-परायणाः ॥
उपाध्यायः श्री फूलचन्द्रः 'श्रमणः '
श्री खजानमुनेः शिष्यः, फूलचन्द्रो महामुनिः । तपसा तेजसा तुष्ट्या, समृद्धः संयमाधिपः ॥ शान्तमूर्तिर्विरक्तो हि, रक्तो हि जैन शासने । निष्णातः शास्त्र-सिन्धौ च श्रमणाख्यः शान्तमानसः || आचार्यानन्द - ऋषिणा, महत्तां तस्य जानता । भूम्यग्निव्योमनेत्राब्दे (२०३१) दत्तं “प्रवर्तकः ” पदम् ॥ रामाग्निव्योमनेत्राब्दे, (२०३३) उपाध्यायपदं हि सः | प्राप्तवान् लोकविख्यातः, लुधियाना-नगरे वसन् ॥ अस्यां परम्परायान्तु येऽपि सन्ति मुनिश्वराः । तेषां चरणेषु 'तिलको' हि, वन्दते सादरं सदा ||
श्री उत्तराध्ययन सूत्रम् / 54 / प्रशस्तिः