________________
८८
શ્રીશાંતસુધારાસઃ
स्वच्छन्दं छन्दसामप्यधिगतरचना यावती भावनीयाः, प्राप्तालङ्कारसारा रुधिरनवरसग्रन्थग्रन्थे समर्थाः । षड्भाषापद्यबन्धोद्धरमधुरगिरोऽध्यात्मविद्याधुरीणाः, कोकेऽप्यस्तोकलोलप्रकटितयशसस्ते वयं केन जय्याः? ॥२॥ यावद्विद्याभिमानैरिति हृदि बहुधा मत्ततामाश्रयामस्तावदैवादकस्मात् स्मृतिपथमगमन् हेमसूरीश्वराद्याः । . गर्वः सर्वोऽपि खर्वः समजनि युगपत्तत्प्रणीतप्रबन्धात्, ध्यायन्तोऽथैगभीरानथ परिचिनुमस्तत्त्वसौहित्यलीलाम् ॥३॥
त्रिभिर्विशेषकम् ॥ श्रीहेमचन्द्रादिसुरीश्वराणां, पुरः स्फुरेद्यः कवितामदौघः । तार्क्ष्यस्य पक्षौसमुदीक्ष्य साक्षात् ,स मक्षिकाणामिव पक्षधर्मः॥४ हैमव्याकरणार्णवं निजधिया नावावगाडाभितो, मञ्जूषा समपूरि भूरिघृणिभिर्यायरत्नरिह । ज्योतिस्तत्त्वविवर्तवार्तिककृतः श्रीहेमहंसाह्वया, जीयासुः सुमनोमनोरमगिरस्ते वाचकाधीश्वराः हैमव्याकरणाम्भोधि, येऽवगाह्य महाधियः । अभिज्ञानमिवाकार्ष:, क्रियारत्नसमुच्चयम् वैयाकरणवर्यास्ते, श्रीगुणरत्नसूरयः ।
अन्येऽपि शाब्दिकप्रष्ठा, विजेजीरन् महर्षयः ॥ ७॥ युग्मम् ॥ हैमव्याकरणार्णवस्य महतस्तुच्छा मदीया मतिद्रोणी पारमविन्दतीयमसकृत्वोऽस्य चिक्रीडयन् । यच्चामूमुदमुक्तिमौक्तिकशतैर्व्यक्तीकृतैः कोविदा-- स्तत्सर्व सुगुरुप्रसादपवनप्रागल्भ्यमुज्जृम्भते ॥८॥ श्रीसूरिभिर्यानि निरूपितानि, सूत्राणि तान्येव शताधिकानि । क्रमः परिवर्तित एष शब्द-व्युत्पत्तये मादृशवालिशानाम् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org