SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ૭૨ श्री शांत सुधा•२०स : यो जीवाऽभयभावडिण्डिममिषात् स्वीयं यशोडिण्डिम, षण्मासान् प्रतिवर्षमुग्रमखिले भूमण्डलेऽवीवदत् । भेजे धार्मिकतामधर्मरसिको म्लेच्छाग्रिमोऽकब्बरः, श्रुत्वा यद्वदनादनाविलमतिर्धर्मोपदेशं शुभम् ॥ २ ॥ तत्पट्टोन्नत पूर्वपर्वतशिरः स्फूर्तिक्रियाहर्मणिः, सूरिः श्रीविजयादि सेन सुगुरुर्भव्येष्टचिन्तामणिः । शुभ्रैर्यस्य गुणैरिवानघघनैरावेष्टितः शोभते, भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते कन्दुकः ॥ ३ ॥ येनाकब्बरपर्षदि प्रतिभटान्निर्जित्य वाग्वैभवैः, शौर्याश्चिर्यकृता वृता परिवृता लक्ष्म्या जयश्रीकनी । चित्रं मित्र ! किमत्र मित्रमहसस्तेनास्य वृद्धा सती, कीर्तिः पत्यपमानशङ्कितमना याता दिगन्तानितः ॥ ४ ॥ विजयतिलकसूरिर्भूरिसूरिप्रशस्यः, समजनि मुनिनेता तस्य पट्टेऽच्छचेताः । हरहसित हिमानीहं सहारोज्ज्वलश्री त्रिजगति वरवर्ति स्फूर्तियुग् यस्य कीर्तिः ॥ ५ ॥ तत्पट्टे जयति क्षितीश्वरतति स्तुत्यांघ्रिपङ्केरुहः, सूरिदूरितदुःखवृन्दविजयानन्दः क्षमाभृद्विभुः । यो गौरैर्गुरुभिर्गुणैर्गणिवरं श्रीगौतमं स्पर्द्धते, लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारं गतः ॥ ६ ॥ यच्चारित्रमखिन्नकिन्नरगणैर्जेगीयमानं जगजाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्तीपितुः । वाञ्छापूर्त्तिमियर्त्ति युग्ममथ तल्लेमे सहस्रं स्पृहावैयrयं गुणरागिणोऽग्रिमगुणग्रामाऽभिरामात्मनः ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002156
Book TitleShant Sudharas Part 2
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy