________________
गेयाष्टक
अनुभव विनय ! सदा सुखमनुभव, औदासीन्यमुदारं रे । कुशलसमागममागमसारं, कामितफलमन्दारं रे
॥ अनु० ॥ १ ॥
परिहर परचिन्तापरिवारं चिन्तय निजमविकारं रे । वदति कोऽपि चिनोति करीरं चिनुतेऽन्यः सहकारं रे ॥ अनु० ॥ २ ॥
योऽपि न सहते हितमुपदेशं, तदुपरि मा कुरु कोपं रे । निष्फलया किं परजनतया ?, कुरुषे निजसुखलोपं रे ॥ अनु० ॥ ३ ॥
सूत्रमपास्य जडा भाषन्ते केचन मतमुत्सूत्रं रे । किं कुर्मस्ते परिहृतपयसो, यदि पीर्यन्ते मूत्रं रे
१ पिबन्ति पाठांतर.
;
રાગઃ—આ અષ્ટકના રાગની દેશી પ્રસિદ્ધ છે. ‘ આજ ગયા'તા અમે સમવસરણમાં ' એ જાણીતી ઢાળમાં ચાલે છે. પ્રતમાં એને પ્રભાતિ રાગ લખે છે. ‘ આદર જીવ! ક્ષમા ગુણુ આદર ની દેશી જણાવે છે.
>
Jain Education International
॥ अनु० ॥ ४ ॥
For Private & Personal Use Only
www.jainelibrary.org