________________
પ્રકરણ ૧૬ સુ
માધ્યસ્થ્ય ભાવના शालिनी
श्रान्ता यस्मिन् विश्रमं संश्रयन्ते, रुग्णाः प्रीतिं यत्समासाद्य सद्यः । लभ्यं रागद्वेषविद्वेषिरोधादौदासीन्यं सर्वदा तत्प्रियं नः लोके लोका भिन्नभिन्नस्वरूपा, भिन्नैर्भिन्नैः कर्मभिर्मर्मभिद्भिः । रम्यारम्यैश्चेष्टितैः कस्य कस्य, तद्विद्वद्भिः स्तूयते रुष्यते वा मिथ्या शंसनवीरतीर्थेश्वरेण, रोद्धुं शेके न स्वशिष्यो जमालिः । अन्यः को वा सेत्स्यते केन पापातस्मादौदासीन्यमेवात्मनीनम् अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किं, धर्मोद्योगं कारयेयुः प्रसह्य । दद्युः शुद्धं किन्तु धर्मोपदेशं, यत्कुर्वाणा दुस्तरं निस्तरन्ति तस्मादौदासीन्यपीयूषसारं, वारं वारं हन्त सन्तो लिहन्तु । आनन्दानामुत्तरङ्गतरङ्गै
जवद्भिर्यद्भुज्यते मुक्तिसौख्यम् ॥ ड० ५ ॥
Jain Education International
For Private & Personal Use Only
॥ क० १ ॥
॥ ख ० २ ॥
॥ ग० ३ ॥
॥ घ० ४ ॥
www.jainelibrary.org