________________
गेयाष्टक सुजना! भजत मुदा भगवन्तं, सुजना! भजत मुदा भगवन्तम् । शरणागतजनमिह निष्कारणकरुणावन्तमवन्तम् रे
॥ सुजना ! ॥१॥ क्षणमुपधाय मनः स्थिरतायां, पिबत जिनागमसारम् । कापथघटनाविकृतविचारं, त्यजत कृतान्तमसारं रे
॥सुजना ! ० ॥२॥ परिहरणीयो गुरुरविवेकी, भ्रमयति यो मतिमन्दम् । सुगुरुवचः सकृदपि परिपीतं, प्रथयति परमानन्दं रे
॥सुजना ! ० ॥ ३ ॥ कुमततमोभरमीलितनयनं, किमु पृच्छत पन्थानम् ।। दधिबुद्धया नर जलमन्थन्यां, किमु निदधत मन्थानम् रे
॥सुजना ! ॥४॥ अनिरुद्धं मन एव जनानां, जनयति विविधातङ्कम् । सपदि सुखानि तदेव विधत्ते, आत्माराममशङ्क रे
॥ सुजना ! ० ॥५॥ परिहरताश्रवविकथागौरव-मदनमनादिवयस्यम् । क्रियतां सांवरसाप्तपदीनं, ध्रुवमिदमेव रहस्यं रे
॥सुजना ! ० ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org