________________
૨૧૦
શ્રી શાંતસુધારમ્સ
अदधुः केचन शीलमुदारं, ___ गृहिणोऽपि परिहतपरदारम् । यश इह सम्प्रत्यपि शुचि तेषां,
विलसति फलिताफलसहकारम् ॥ विनय!०॥५॥ या वनिता अपि यशसा साकं,
कुलयुगलं विदधति सुपताकम् । तासां सुचरितसश्चितराक,
दर्शनमपि कृतसुकृतविपाकम्॥ विनय!० ॥६॥ तात्विकसात्त्विकसुजनवतंसाः,
केचन युक्तिविवेचनहंसाः । अलमकृषत किल भुवनाभाग,
___ स्मरणममीषां कृतशुभयोगम् ।। विनय० ॥ ७॥ इति परगुणपरिभावनसारं,
सफलय सततं निजमवतारम् । कुरु सुविहितगुणनिधिगुणगानं,
विरचय शान्तसुधारसपानम् ॥ विनय ! ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org