________________
गेयाष्टक विनय ! विचिन्तय मित्रतां त्रिजगति जनतासु । कर्मविचित्रतया गतिं विविधां गमितासु ॥ विनय !० ॥ १ ॥ सर्वे ते प्रियबान्धवा न हि रिपुरिह कोऽपि । मा कुरु कलिकलुषं मनो निजसुकृतविलोपि ।। विनय!० ॥२॥ यदि कोपं कुरुते परो निजकर्मवशेन । अपि भवता किं भूयते हदि रोषवशेन ? ॥ विनय ! ॥३॥ अनुचितमिह कलहं सतां त्यज समरसमीन । भज विवेककलहंसतां गुणपरिचयपीन ॥ विनय !० ॥ ४॥ शत्रुजनाः सुखिनः समे मत्सरमपहाय । सन्तु गन्तुमनसोऽप्यमी शिवसौख्यगृहाय ॥ विनय! ॥५॥ सकृदपि यदि समतालवं हृदयेन लिहन्ति । विदितरसास्तत इह रतिं स्वत एव वहन्ति ॥ विनय० ॥६॥ किमुत कुमतमदमूर्छिता दुरितेषु पतन्ति । जिनवचनानि कथं हहान रसादुपयन्ति ॥ विनय० ॥ ७ ॥ परमात्मनि विमलात्मनां परिणम्य वसन्तु । विनय! समामृतपानतो जनता विलसन्तु ॥ विनय!० ॥ ८॥
રાગ. “વિમલાચલ નિનુ વંદીએ” એ ઉપાધ્યાયજીના સુપ્રસિદ્ધ સ્તવનના લયમાં ચાલે છે. એની પ્રતમાં રાગ માટે લખે છે કે “દેશાખ रामेर गीयते. '२ ! जिन धर्म से देशी."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org