________________
गेयाष्टक*
विनय ! निभालय निजभवनं (२) तनुधनसुतसदनस्वजनादिषु,
किं निजमिह कुगतेरवनम् ? ॥ विनय० ॥१॥ येन सहाश्रयसेऽतिविमोहा
दिदमहमित्यविभेदम् । तदपि शरीरं नियतमधीरं,
त्यजति भवन्तं धृतखेदम् ॥ विनय० २॥ जन्मनि जन्मनि विविधपरिग्रह
मुपचिनुषे च कुटुम्बम् । तेषु भवन्तं परभवगमने,
नानुसरति कृशमपि सुम्बम् ॥ विनय० ॥३॥ त्यज ममतापरितापनिदान,
परपरिचयपरिणामम् । भज निःसङ्गतया विशदीकृत
मनुभवसुखरसमभिरामम् ॥ विनय० ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org