SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कथं पुनः स्तोत्रेभ्यः पूजा स्यादित्याह || शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूतगुणोत्कीर्त्तनसंवेगात्समरसापत्त्या ॥ ८ शुभभावार्थं पूजा सर्वापि पुष्पादिभिरिष्यते, स च भावः स्तोत्रेभ्यः परः प्रकृष्टः शुभो भवति, सद्भूतानां विद्यमानानां गुणानां ज्ञानादीनां यत्कीर्त्तनम् तेन संवेगो मोक्षाभिलाषस्ततः समे भावे रसोऽभिलाषो यस्यां तादृश्यापत्त्या प्राप्त्या हेतभूतया परमात्मगुणोपयोगेन परमार्थतस्तदनन्यवृत्तिलक्षणया, ततश्च 'पुष्पादितः शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धं भवति ॥ ८ ॥ स्तोत्रोधी धूम डेवी रीते थाय ? ते हवे छे... ગાથાર્થ :- સઘળીએ પૂજા શુભભાવ માટે છે. અને સ્તોત્રોથી સદ્ભૂત ગુણો ગાવાથી સંવેગ પ્રગટે છે. અને તેનાથી સમરસની (પરમાત્મભાવ)ની પ્રાપ્તિ થતી હોવાથી પુષ્પાદિપૂજા કરતા સ્તોત્રથી ઉચ્ચકોટિના શુભભાવો પ્રગટે છે. માટે સ્તોત્ર પૂજાનો હેતુ છે એ સિદ્ધ થયું. - વિશેષાર્થ :- સમરસાપત્તિ - પ૨માત્મના સ્વરૂપભૂત જે જ્ઞાનાદિગુણ तेनो उपयोग - तन्मय जनवुं ॥ ८ ॥ अथान्यथा पूजाभेदत्रयमाह । कायादियोगसारा त्रिविधा तच्छुद्ध्युपात्तवित्तेन । तदतिचाररहिता सा परमान्ये तु समयविदः ॥ ९ ॥ कायादयो ये योगास्तत्सारा तत्प्रधाना त्रिविधा त्रिप्रकारा काययोगसारा वाग्योगसारा मनोयोगसारा च तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारपूर्वेकाग्रप्रवृत्तिस्तयोपात्तं यद्वित्तं तेन कारणभूतेन या तदतिचारैः शुद्धयतिचारैः रहिता सा परमा प्रधाना पूजाऽन्ये तु समयविद आगमज्ञा इति वदन्तीति शेषः ।। ९ ।। બીજી રીતે પૂજાના ત્રણ પ્રકાર બતાવે છે... શ્રીષોડશકપ્રકરણમ્૯ Jain Education International For Private & Personal Use Only 119 www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy