________________
૬૪૬
વિક્ષિત છે. હવે નોદનાનું વિશેષ વિવેચન કરે છે–
ધર્મનું લક્ષણ નોદના છે. ક્રિયામાં મનુષ્યને પ્રેરનાર (પ્રવર્તક) વચનોને નોદના કહે છે. ઉદાહરણાર્થ, ‘સ્વર્ગની કામનાવાળો અગ્નિહોત્ર યજ્ઞ કરે' આ વચન અગ્નિહોત્રરૂપી ક્રિયામાં પુરુષને પ્રવૃત્તિ કરવા પ્રેરે છે, તેથી આ વચન નોદના છે અર્થાત્ प्रेरात्मछे. (७१)
તર્કરહસ્યદીપિકા
15. व्याख्या - नोद्यन्ते प्रेर्यन्ते श्रेयः साधकद्रव्यादिषु प्रवर्त्यन्ते जीवा अनयेति नोदना वेदवचनकृता प्रेरणेत्यर्थः । धर्मो नोदनया लक्ष्यते ज्ञायत इति नोदनालक्षणः । धर्मो ह्यतीन्द्रियत्वेन नोदनयैव लक्ष्यते नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानोपलम्भकत्वात्, धर्मस्य तु कर्तव्यतारूपत्वात् कर्तव्यतायाश्च त्रिकालशून्यार्थरूपवात्, त्रिकालशून्यकार्यरूपार्थविषयविज्ञानोत्पादिका चोदनेति मीमांसकाभ्युपगमात् । अथ नोदनां व्याख्याति 'नोदना तु क्रियां प्रति' इत्यादि । नोदना पुनः क्रियां हवनसर्वभूताहिंसनादानादिक्रियां प्रति प्रवर्तकं वचो वेदवचनं प्राहुमींमांसका भाषन्ते । हवनादिक्रियाविषये यदेव प्रेरकं वेदस्य वचनं सैव नोदनेति भावः । प्रवर्तकं तद्वचनमेव निदर्शनेन दर्शयति 'स्व: कामोऽग्नि यथा यजेत्' इति । यथेत्युपदर्शनार्थः । स्वः स्वर्गे कामो यस्य स स्वःकामः पुमान् स्वःकामः सन् । अग्नि वह्निं यजेत् - तर्पयेत् । अत्रेदं श्लोकबन्धानुलोम्येनेत्थमुपन्यस्तम् । अन्यथा त्वेवं भवति "अग्निहोत्रं जुहुयात्स्वर्गकाम:" [ मैत्रा० ६।३ ] इति प्रवर्तकवचनस्योपलक्षणत्वात् । निवर्तकमपि वेदवचनं नोदना ज्ञेया, यथा "न हिंस्यात्सर्वभूतानि” [ ] इति । एवं न वै हिंस्त्रो भवेत् इत्याद्यपि । आभिर्नोदनाभिर्नोदितो यदि यथा नोदनं यैर्द्रव्यगुणकर्मभिर्यो हवनादौ प्रवर्तते निवर्तते वा, तदा तेषां द्रव्यादीनां तस्याभीष्टस्वर्गादिफलसाधनयोग्यतैव धर्म इत्यभिधीयते । एतेन वेदवचनैः प्रेरितोऽपि यदि न प्रवर्तते निवर्तते वा विपरीतं वा प्रवर्तते, तदा तस्य नरकाद्यनिष्टफलसंसाधनयोग्यतैव द्रव्यादिसंबन्धिनी पापमित्युच्यत इत्यपि ज्ञापितं द्रष्टव्यम् । इष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधर्माविति हि मीमांसकाः । उक्तं च शाबरे- "य एव श्रेयस्करः स एव धर्मशब्देनोच्यते" [ शाबरभा०१।१।२] अनेन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्मः प्रतिपादितं शबरस्वामिना । भट्टोऽप्येतदेवाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org