________________
૬૩૮
તર્કરહસ્યદીપિકા
તે કુકર્મોને છોડીને યજન-યાજન, અધ્યયન-અધ્યાપન, દાન-પ્રતિગ્રહ આ છે બ્રાહ્મણકર્મોનું અનુષ્ઠાન કરે છે અને બ્રહ્મસૂત્રને (યજ્ઞોપવીતને) ધારણ કરે છે. જૈમિનીયોમાં કુમારિલ ભટ્ટના શિષ્યો ભાદ્રો પ્રત્યક્ષ આદિ છ પ્રમાણોને માને છે તથા પ્રભાકર ગુરુના શિષ્યો પ્રાભાકરો અભાવ પ્રમાણ સિવાય બાકીનાં પાંચ પ્રમાણોનો સ્વીકાર કરે છે.
3. ये तूत्तरमीमांसावादिनः, ते वेदान्तिनो ब्रह्माद्वैतमेव मन्यन्ते । "सर्वमेतदिदं ब्रह्म" [छान्दो० ३।१४।१] इति भाषन्ते प्रमाणं च यथा तथा वदन्ति । एक एवात्मा सर्वशरीरेषूपलभ्यत इति जल्पन्ति ।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१॥
इति वचनात् । "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्" [ऋक् ० १०।१०।२] इति वचनाच्च । आत्मन्येव लयं मुक्तिमाचक्षते, न त्वपरां कामपि मुक्तिं मन्यन्ते । ते च द्विजा एव भगवन्नामधेयाश्चतुर्धाभिधीयन्ते कुटीचर-बहूदक-हंस-परमहंस-भेदात् । तत्र त्रिदण्डी सशिखो ब्रह्मसूत्री गृहत्यागी यजमानपरिग्रही सकृत्पुत्रगृहेऽश्नन् कुट्यां निवसन् कुटीचर उच्यते। कुटीचरतुल्यवेषो विप्रगेहनैराश्यभिक्षाशनो विष्णुजापपरो नदीनीरस्नायी बहूदकः कथ्यते । ब्रह्मसूत्रशिखाभ्यां रहितः कषायाम्बरदण्डधारी ग्रामे चैकरात्रं नगरे च त्रिरात्रं निवसन् विधूमेषु विगताग्निषु विप्रगेहेषु भिक्षां भुञ्जानस्तपःशोषितविग्रहो देशेषु भ्रमन् हंसः समुच्यते । हंस एवोत्पन्नज्ञानश्चातुर्वर्ण्यगेहभोजी स्वेच्छया दण्डधारी ईशानी दिशं गच्छन् शक्तिहीनतायामनशनग्राही वेदान्तैकध्यायी परमहंसः समाख्यायते । एतेषु चतुर्पु पर परोऽधिकः । एते च चत्वारोऽपि केवलब्रह्माद्वैतवादसाधनैकव्यसनिनः शब्दार्थयोनिरासायानेका युक्तीः स्फोरयन्तोऽनिर्वाच्यतत्त्वे यथा व्यवतिष्ठन्ते तथा खण्डनतर्कादभियुक्तैरवसेयम् । नात्र तन्मतं वक्ष्यते इह तु सामान्येन शास्त्रकारः पूर्वमीमांसावादिमतमेव विभणिषुरेवमाह
जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org