________________
વૈશેષિકમત
૬૩૩
બધા યોગીઓને થતું નથી. આનું વિસ્તૃત નિરૂપણ ન્યાયકન્દલીમાંથી જાણી લેવું भेर्धये.
52. लैङ्गिकस्य पुनः स्वरूपमिदम् । लिङ्गदर्शनाद्यदव्यभिचारित्वादिविशेषणं ज्ञानं तद्यतः परामर्शज्ञानोपलक्षितात्कारकसमूहाद्भवति तलैङ्गिकमनुमानमिति यावत् । तच्चैवं भवति । " अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम् ।" [ वैशे० सू० ९।२।१ ] तत्र कार्यं कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं कारणस्य गमकं, यथायं नदीपूरो वृष्टिकार्यो विशिष्टनदीपूरत्वात् पूर्वोपलब्धविशिष्टनदीपूरवत् । कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं कार्यस्य लिङ्गं यथा विशिष्टमेघोन्नतिर्वर्षकर्मणः । तथा धूमोऽग्नेः संयोगी । समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथाऽहिर्विस्फूर्जनविशिष्टो नकुलादेर्लिङ्गं वह्निर्वा शीताभावस्येति । 'अस्येदम्' इति सूत्रे च कार्यादीनामुपादानं लिङ्गनिदर्शनार्थं कृतं न पुनरेतावन्त्येव लिङ्गानीत्यवधारणार्थम् । यतः कार्यादिव्यतिरिक्तान्यपि लिङ्गानि सन्ति, यथा चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च लिङ्गम्, न च चन्द्रोदयः समुद्रवृद्धिकुमुदविकाशौ च मिथः कार्यं कारणं वा भवन्ति, विशिष्टदिग्देशकालसंयोगात्कल्लोलपत्रविस्तारलक्षणानामुदकवृद्धिविकाशानां स्वस्वकारणेभ्य एवोत्पत्तेः । शरदि च जलस्य नैर्मल्यमगस्त्योदयस्य लिङ्गमित्यादि तत्सर्वं 'अस्येदम्' इति पदेन गृहीतं विज्ञेयम् । अस्य साध्यस्येदं संबन्धीति कृत्वा यद्यस्य देशकालाद्यविनाभूतं तत्तस्य लिङ्गमित्यर्थः । ततः 'अस्येदम्' इति सूत्रस्य नाव्यापकतेति । विशेषार्थिना तु न्यायकन्दली विलोकनीया । शब्दादीनां तु प्रमाणानामनुमान एवान्तर्भावात् कन्दलीकाराभिप्रायेणैतत्प्रमाणद्वितयमत्रावोचदाचार्य: । व्योमशिवस्तु प्रत्यक्षानुमानशाब्दानि त्रीणि प्रमाणानि प्रोचिवान् । उपसंहरन्नाह - 'वैशेषिकमतस्य' इत्यादि । वैशेषिकमतस्यैषोऽनन्तरोक्तः संक्षेपः परिकीर्तितः कथितः ।
52. લૈંગિક અર્થાત્ અનુમાન પ્રમાણનું સ્વરૂપ આ પ્રમાણે છે — લિંગને જોઈને અવ્યભિચારી આદિ વિશેષણોવાળું જે નિર્દોષ જ્ઞાન ઉત્પન્ન થાય છે તે અનુમિતિ (પ્રમા) છે. આ અનુમિતિ જે પરામર્શ-વ્યાપ્તિવિશિષ્ટપક્ષધર્મતાજ્ઞાન આદિ કારકસમુદાયથી ઉત્પન્ન થાય તે અનુમિતિકરણને લૈંગિક (અનુમાન) પ્રમાણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org