________________
७४
તર્કરહસ્યદીપિકા 80. अथ प्रत्यक्षलक्षणमाह
प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम् । 80. वे मायार्थ प्रत्यक्ष- लक्ष छકલ્પનાપોઢ અર્થાત નિર્વિકલ્પક તથા ભ્રાન્તિથી રહિત અબ્રાન્ત જ્ઞાનને પ્રત્યક્ષ કહે छे.
81. व्याख्या-तत्र तयोः प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षं बुध्यतां ज्ञायताम् । तत्र प्रतिगतमक्षमिन्द्रियं प्रत्यक्षम् । कीदृशम् । कल्पनापोढम् । शब्दसंसर्गवती प्रतीतिः कल्पना । कल्पना अपोढा अपेता यस्मात्तत् कल्पनापोढम् । ननु बहुव्रीहौ निष्ठान्तं पूर्व निपतति, ततोऽपोढकल्पनमिति स्यात् । न; "वाहिताग्न्यादिषु" इति वावचनात्, आहिताग्न्यादेश्चाकृतिगणत्वान पूर्वनिपातः । कल्पनया वापोढं रहितं कल्पनापोढम् नामजात्यादिकल्पनारहितमित्यर्थः । तत्र नामकल्पना यथा डित्थ इति । जातिकल्पना यथा गौरिति । आदिशब्दाद् गुणक्रियाद्रव्यपरिग्रहः । तत्र गुणकल्पना यथा शुक्ल इति । क्रियाकल्पना यथा पाचक इति । द्रव्यकल्पना यथा दण्डी भूस्थो वेति। आभिः कल्पनाभी रहितम्, शब्दरहितस्वलक्षणजन्मत्वात्प्रत्यक्षस्य । उक्तं च- "न ह्यर्थे शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभासमाने प्रतिभासेरन्" [ ] इत्यादि । एतेन स्थिरस्थूलघटपटादिबाह्यवस्तुग्राहिणः सविकल्पकज्ञानस्य प्रत्यक्षतां निरस्यति । पुनः कीदृशं प्रत्यक्षम्। अभ्रान्तम्, "अतस्मिस्तद्ग्रहो भ्रान्तिः"[ ] इति वचनात् । नासद्भूतवस्तुग्राहकं किन्तु यथावत्परस्परविविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणपरिच्छेदकम् । अनेन निर्विकल्पकानां भ्रान्ततैमिरिकादिज्ञानानां प्रत्यक्षतां प्रतिक्षिपति ।
81.व्याध्या-त्या (बौद्धशनमा) ते प्रत्यक्ष भने अनुमानमाथी प्रत्यक्षानुनीये જણાવેલું લક્ષણ સમજવું જોઈએ. જે અને અર્થાત્ ઇન્દ્રિયોને પ્રતિગત એટલે કે આશ્રિત હોય તેને પ્રત્યક્ષ કહે છે. તે કેવું છે? તે કલ્પનાપોઢ છે. શબ્દસંસર્ગવાળી પ્રતીતિને કલ્પના કહે છે. જે જ્ઞાન કલ્પનારહિત છે તે કલ્પનાપોઢ અર્થાત્ નિર્વિકલ્પક છે.
શંકા- બહુવ્રીહિ સમાસમાં નિષ્ઠા-પ્રત્યયાન્ત શબ્દનો પૂર્વનિપાત અર્થાત પહેલો પ્રયોગ થાય છે, એટલે ‘કલ્પનાપોઢન્ના બદલે “અપોઢકલ્પનમ્” કહેવું જોઈએ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org