________________
મંગલ
11. नन्वयं शास्त्रकारः सर्वदर्शनसंबन्धीनि शास्त्राणि सम्यक् परिज्ञायैव परोपकाराय प्रस्तुतं शास्त्रं दृब्धवान्, तत्कथमनेनैवेहेदं नाभिदधे-'अमुकममुकं दर्शनं हेयम्, अमुकं चोपादेयम्' इति चेत्, उच्यते-इह सर्वदर्शनान्यभिधेयतया प्रक्रान्तानि, तानि माध्यस्थ्येनैवाभिदधानोऽत्रौचिती नातिक्रामति । 'इदमिदं हेयम्, इदं चोपादेयम्' इति ब्रुवाणस्तु प्रत्युत सतां सर्वदर्शनानां चानादेयवचनो वचनीयतामञ्चति ।
11. शं- शास्त्र ४२ ५५० शनीना शाखअन्थोने सारी रीते पूरेपूरा सीने અને સમજીને જ પરોપકાર ખાતર આ શાસ્ત્રગ્રન્થ રચ્યો છે તો તેમણે પોતે જ “અમુક અમુક દર્શન હેય છે અને અમુક અમુક દર્શન ઉપાદેય છે એમ સ્પષ્ટપણે અહીં કેમ ન કહ્યું? સમાધાન -આ ગ્રન્થના નિરૂપ્ય વિષય તરીકે અહીં બધાં દર્શનોનું ક્રમથી કથન કરવું ગ્રન્થકારને ઇષ્ટ છે. તેથી તે પૂર્ણ મધ્યસ્થ ભાવથી તેમનું નિરૂપણ કરે એ જ ઉચિત છે. આનાથી ઊલટું, જો તે પોતાની આ મર્યાદાનું ઉલ્લંઘન કરીને આ દર્શનો હોય છે અને આ ઉપાદેય છે” એ રીતે તેમની હેયોપાદેયતામાં પોતાનો દૃષ્ટિકોણ પ્રગટ કરે તો તટસ્થ સજ્જનો તથા અન્ય દર્શનોના અનુયાયીઓ તેમનાં વચનોનો આદર તો કરશે જ નહિ પણ ઊલટું તેમની નિન્દા જ કરશે.
12. नन्वेवं तहस्याचार्यस्य न परोपकारार्था प्रवृत्तिः । कुत एवं भाषसे। नन्वेष दर्शयामि-ये केचन मादृशाः श्रोतारः स्वयमल्पबुद्धित्वेन हेयोपादेयदर्शनानां विभागं न जानीयुस्तेषां सर्वदर्शनसतत्त्वं निशम्य प्रत्युतैवं बुद्धिर्भवेत्'सर्वदर्शनानि तावन्मिथो विरुद्धाभिधायीनि, तेषु च कतरत्परमार्थसदिति न परिच्छिद्यते । तत्किमेतैर्दर्शनैर्दुर्रानैः प्रयोजनम् । यदेव हि स्वस्मै रोचते तदेवानुष्ठेयम्' इति । एवंविधाश्चाविभागज्ञा अस्मिन्काले भूयांसोऽनुभूयन्ते । तदेवं शास्त्रकारस्य सूरेरुपकाराय प्रवृत्तस्य प्रत्युत प्रभूतानामपकारायापि प्रवृत्तिः प्रबभूव, ततश्च लाभमिच्छतो मूलहानिरजनिष्टेति चेत् । न, शास्त्रकारात् सर्वोपकारायैव प्रवृत्तात् कस्याप्यपकारासिद्धेः । विशेषणद्वारेण हेयोपादेयविभागस्यापि कतिपयसहृदयहृदयसंवेद्यस्य संसूचनात् । तथाहि- सद्दर्शनं जिनं नत्वा “सद्विद्यमाने सत्यै च प्रशस्तार्चितसाधुषु" [अनेकार्थ० १।१०] इत्यनेकार्थनाममालावचनात्, सत्सत्यं न पुनरसत्यं दर्शनं मतं यस्य तम् ।। जिनमिति विशेष्यम् । चतुर्विशतेरपि जिनानामेकतरं( मं) रागादिशत्रुजयात् सान्वयनामानं जिनं वीतरागं नत्वा । एतेन पदद्वयेन चतुर्विंशतेरपि जिनाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org