________________
चतुर्थ स
विश्रान्तेऽस्मिस्तव गिरिवरे निःशलाकप्रदेशे ध्यानासीनं यमनियमधोधीरघोणाग्रदृष्टिम् । ताद्रूप्याप्तेरचलमचलस्येव सङ्गेन नाथं ater स्थेयास्त्वमपि निभृतं तद्वदेवासमाधि ॥ १२ ॥
विधान्ते • हे जलधर ! त्वमपि अस्मिन् गिरिवरे उज्ज्यन्तः नाम्नि पर्वते नाथं श्रीनेमिनाथं वीक्ष्य आसमाधि समाधिप्राप्ति यावत् तद्वदेव निभृतं निश्चलं यथा स्यात् तथा स्थेयाः स्थिति कुर्याः । किरूपे अस्मिन् गिरिवरे - तव विश्रान्ते तव विश्रामस्थान के मेघाः किल पर्वतोपरि विश्राम्यन्ति । किविशिष्टं नाथम्नःशलाक प्रदेशे निर्व्यंजनस्थाने ध्यानासीनं ध्यानोपविष्टम् । पुनः कीदृशम् - यमनियमषोधीरघोणा प्रदृष्टि यमनियमेषु धीः बुद्धिः यस्य सः धीरा निश्चला घोणाग्रे नासिकाग्रे दृष्टिः यस्य सः यमनियमधीः च घोरघोणाग्रदृष्टिः च यमनियमघोघी रघोणाग्रदृष्टिः तं विशेषणदृष्टिः तम्, तथा अचलं निश्चलम् । कुतः उत्प्रेक्ष्यते - अचलस्य पर्वतस्य सङ्ग ेन ताद्रूप्याप्तेः इव पर्वतरूपता प्राप्तेः इव अचलम् ॥१२॥
हे मेघ ! तुम्हारे विश्रामस्थल उस निर्जन प्रदेशवाले पर्वत पर ध्यानमग्न यम-नियम की बुद्धि से निश्चल, नासिकाग्र दृष्टिवाले और जो मानो अचल (पर्वत) के सङ्ग के कारण स्वयं भी अचल रूप से हो रहे हैं, ऐसे मेरे नाथ को देखकर तुम भी उन्हीं की तरह उनके समाधिकाल तक निश्चल हो जाना ॥ १२॥
आपीयासौ शमसुखरसं
संविदानन्दपूर्णो
यावद्धीमन् ! भवति भगवान् किञ्चिदुन्मीलिताक्षः । तावत्तस्य क्रमकमलयोः प्राप्य रोलम्बलीलां शक्लोक्लान्तः सुमृदुवचसा वाचयेर्वाचिकानि ॥१३॥
१०७
आपीयासी • हे धीमन् ! हे पयोद ! असौ भगवान् श्रीनेमिः शमसुखरसम् उपशमसौख्यरसम् आपीय सामस्त्येन पीत्वा संविदानन्दपूर्णः चिदानन्दपूरितः सन् यावत् किञ्चित् उन्मीलिताक्षः उद्घाटितनेत्रा भवति । हे मेघ ! तावत् तस्य भगवतः क्रमकमलयोः चरणयोः रोलम्बलीलां प्राप्य भ्रमरलीलाम् आसाद्य सुमृदुवचसा अत्यर्थं कोमलवचनेन त्वं वाचिकानि सन्देशकान् वाचयेः कथयेः । किंभूतः - त्वम् - शक्लः प्रियम्वदः प्रियवादी इत्यर्थः तथा अक्लान्तः अश्रान्तः ॥१३॥
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org