________________
१०२
जेनमेघदूतम् वीज्यमानः । उत्प्रेक्ष्यते-शुखध्यानद्वयनत इव शुद्धध्यानद्वयेन धर्मध्यानशुक्लध्यानेन नत इव नमस्कृत इव तथा च्छत्रलक्ष्येक्यकोतिः छत्रस्य पुण्डरीकस्य लक्ष्यात् मिषात् ईक्ष्या दृश्या कीर्तिः यस्य सः। पुनः किरूपो नेमिः-सर्वतः समन्ततः देवव्यूहः देवसमूहः समनुचरितः अनुगतः । किरूपैः देवव्यूहै:-मागधभिः मागधा इव भट्टा इव आचरन्तो ये तैः तथा ज्ञातेयेषु गोत्रिजनेषु मध्ये प्रसृतमतिभिः प्रसरणशीलबुद्धिभिः लोकैः साश्रुभिः दृश्यमूत्तिः दृश्या अवलोकनीया मूत्तिः यस्य सः तथा भूषिताङ्गः । क इव-नीरजिन्या इव, यथा नीरजिन्या कमलिन्या वनात् वनम् आरुह्य रविः सूर्यः गच्छन् सन् दृश्यते ॥३-४।। युग्मम् ॥
हे मेघ ! एक बार वर्षा ऋतु के समाप्त होने पर पालकी पर आरूढ़, कल्याण चरित्र में बुद्धि रखने वाले, धर्मध्यान और शुक्ल ध्यान की भांति झुके हुए, चामर डुलाने वाले इन्द्रद्वय से सेवित, छत्र को व्याज से दर्शनीय कीर्ति वाले, दिव्य दुन्दुभियों (नगाड़ों) की आवाज से युक्त, भाटों की तरह स्तुति करने वाले देवसमूह से घिरे हुए एवं वृद्ध कुटुम्बिजनों द्वारा अश्रुपूर्ण नेत्रों से देखे जानेवाले, सर्वाङ्ग सुन्दर श्री नेमि को गवाक्ष (खिड़की) से मैंने उसी प्रकार देखा जैसे अस्ताचल को जाते हुए सूर्य को कमलिनी निहारती (देखती) है ॥३४॥
सद्योमायद्विषमविरहाबाधविस्मारिणी मां मूर्छाऽतुच्छाऽसजवसुपरिभ्रंशभीता सखीव । यावत्तावत् परपरिचितमत्सरेणेव सख्यः कृत्वा किञ्चिच्छलमलमपासारयंस्तां वराकीम् ॥५॥ सोमाय • हे जलघर ! यावत् अतुच्छा गुरुतर मूर्छा सद्यः तत्कालं मां राजीमतीम् असजत् आलिङ्गतिस्म। किरूपा मुर्छा-माविषमविरहापापविस्मारिणी माद्यन् मदोन्मत्ती भवन् विषमो दु:सहो यो विरहो वियोगः तेन यः आबाषः पीडनं तस्य विस्मारिणी विस्मृतिकारिणी । क इव-सखीव, यथा सखी असुपरिभ्रंशभोता सती असूनां प्राणानां परिभ्रंशो विनाशः तस्मिन् भीता प्रस्ता एवंविधा सती सखीम् आलिङ्गति स्म । हे पयोद ! तावत् सख्यः अलम् अत्यर्थ किञ्चिच्छलं शोतोपचारलक्षणं कृत्वा तां वराकों मूर्छाम् अपासारयत् दूरं नि:कासयामासुः पृथक्चक्रः इत्यर्थः । केन कारणेन-उत्प्रेक्ष्यते-परपरिचितेः अन्यपरिवयस्य मत्सरेण इव। अन्या अपि किल सख्यः स्वसख्या अपरसखीपरिचिति न सहन्ते इति ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org