________________
चतुर्थ सर्ग चिन्तारत्नं • हे पयोद ! चिन्तारत्नं चिन्तामणि वृषत् पाषाणरूपं सुरः कल्पवृक्षाः अपगतज्ञानलेशः गतज्ञानलवः 'विशेषावबोधो ज्ञानमुच्यते' एकेन्द्रियाणां तदभावात् युक्तमेव इदं विशेषणम् । सा सर्वलोकप्रसिद्धा स्वर्षेनुः कामधेनुः पशुगतिगता पशुत्वं प्राप्ता, च पुनः पूर्णकुम्भः मत्स्ना मृत्तिकारूपः। हे जलधर ! अतः कारणात् स एषः श्रीनेमिः केन सह उपमेयः उपमायोग्यः अपितु न केनापि । किरूपः एषः-प्रोक्तः दृषदादिरूपैः अन्यः अपि कार्पण्याः । वन्दिकः दोषः परिहतः । एष किं कुर्वन्-जगति विश्वे चिन्तातीतं चिन्तितादधिकं रुक्मरत्नादि सुवर्णमण्यादि विसरत् ददत् ॥२॥
प्रार्थना से भी अधिक स्वर्ण-रत्नों का दान करने वाले तथा चिन्तामणि आदि के दोषों से रहित हे मेघ! श्रीनेमि प्रभ की किससे उपमा दी जाय? उनकी उपमा देने योग्य कोई भी वस्तु नहीं है क्योंकि यदि चिन्तामणि से उपमा दी जाती है तो वह पत्थर ही है, कल्पवृक्ष से उपमा दी जाती है तो वह ज्ञानहीन ही है, कामधेनु से उपमा दी जाय तो वह पशुकोटि की है, पूर्णकुम्भ मिट्टी का ही है ॥२॥
सम्पूर्णायां शरदि शरदः प्राक्तनों कदाचित् नेमिः क्षेमकरचरितधीर्याप्ययानाधिरूढः । शक्रेशानाधिपधृतचलच्चामरोपास्यमानः . शुद्धध्यानद्वयनत इव च्छत्रलक्ष्येक्ष्यकोत्तिः ॥३॥ देवव्यू हैः समनुचरितः सर्वतो मागभि - : जतियेषु प्रसृतमतिभिः साश्रुभिर्दश्यमूर्तिः । दिव्यातोये निनदति मया काननं भूषिताङ्गो . गच्छन् दृष्टो रविरिव बनान्नीरजिन्या गवाक्षात् ॥४॥ सम्पूर्णायां • देवव्यूहैः • हे पयोद ! कदाचित् कस्मिंश्चित् प्रस्तावे नेमिः श्रीनेमिनाथः मया गवाक्षात् गवाक्षम् आरुह्य काननं गच्छन् दृष्टः। क्व सतिदिव्यातोये दिव्यवादित्रे निनदति सति निनादं कुर्वति सति । पुनः कस्यां सत्याम्शरदः शरत्कालात प्राक्तनों वर्षाकाले शरदि वर्षे सम्पूर्णायां सत्यां सम्पूर्ण सति । किंरूपो नेमिः-क्षेमङ्करचरितधीः क्षेमङ्करे क्षेमकारिणि चरिते चारित्रे धीः बुद्धिा यस्य सः तथा याप्ययानाधिरूढः याप्ययानं शिविकादि आसनविशेषः, तस्मिन् मारूढः तथा शक्रेशानाधिपतचलच्चामरोपास्यमानः शुक्रः प्रथमः इन्द्रः ईशानाधिपो द्वितीयः इन्द्रः ताभ्या धृते ये चलच्चामर ताभ्यां उपास्यमानः वामदक्षिणपाश्वयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org