________________
जैनमेघदूतम् श्रोतःसाथ विविधगतिना चेतसा बन्धमोक्षालङ्कर्मीणः सकलविषयग्राममात्मेव देवः ॥४३॥ मोलन्नेत्र ० हे जलधर ! अयं देवः श्रीनेमिः साविमा हस्तिपकेन इभं गजं पशूनां समजं समूहं प्रति आनोनयत् अप्रापयत् । किं कृत्वा-मीलन्नेत्रद्वयं मुकुलितनेत्रयुग्मं यथा स्यात् तथा एवं निश्चित्य निश्चयं कृत्वा, एवं किं-अहम अद:कृत्य इदं पशुमोचनरूपं कार्यं कृत्वा अथ पश्चात् एतत् कर्तास्मि एतत् दीक्षाग्रहणलक्षणकार्य करिष्यामि । किंभूतेन सादिना-विविधगतिना विविधा नानाप्रकारा गतयो यस्मात् अर्थात् गजस्य स तेन । किंभूतः अयं देवःबन्धमोक्षलङ्कर्मीणः बन्धस्य अधिकारात् पशुबन्धनस्य मोक्षे मोचने अलङ्कर्मीणः समर्थः । क इव-आत्मेव, यथा आत्मा चेतसा श्रोतःसाथ इन्द्रियप्रकर सकलविषयग्रामं समस्तशब्दरूपरसस्पर्शगन्धादिविषयसमूहं आनयति प्रापयति । किंभूतेन चेतसा-विविषगतिना विविधा अनेकप्रकारां गतयो नरकतिर्यक्लक्षणा यस्मात् स तेन, यतो मन एव मनुष्याणां कारणं बन्धमोक्षयोः । किरूपः आत्मा-बन्धमोक्षालकर्मीणः बन्धे कर्मणां बन्धने मोक्षे शिवे अलङ्कर्मीण: समर्थः ॥ ४३ ॥
मैं पशुओं को छुड़ा कर दीक्षा ग्रहण कर लूगा इस प्रकार आखों को बन्द कर सोचते हुए बन्ध-मोक्ष मेंसमर्थ श्रीनेमि को महावत ने उसी प्रकार उस पशुसमूह में पहुँचा दिया जैसे आत्मा विविध गति वाले मनके द्वारा श्रोत्रादि इन्द्रिय समूह को प्राप्त होकर शब्दादि विषयों को प्राप्त करता है ।।४।।
दोनोत्पश्यान् पुरवननभश्चारिणश्चारबन्धं बद्धान् बन्धैर्गलचलनयोपिनो मृत्युभीत्या । प्रीतः पृथ्वीपतिरिव जवावेष जन्तून् समन्तू
नुन्मोच्य स्वं द्विरवमनयदुश्मनः सम्मुखत्वम् ॥४४॥ दोनोत्पश्या ० हे जलधर ! एषः श्रोनेमिः स्वं द्विरदं जवात् वेगात् धेश्मनः सम्मुखत्वं गृहस्य अभिमुखताम् अनयत् प्रापयामास नीतवान् इत्यर्थः । किंकृत्वाजन्तून् उन्मोच्य मोचयित्वा किंरूपान् जन्तुन् -दोनोत्पश्यान् दोना दीनमनसश्च उत्पश्या ऊर्द्ध वावलोकनशीलाश्च तान् तथा पुरवननभश्चारिणः पुरे वने नभसि चरन्तीति पुरवननभश्चारिणः तथा चारबन्धं गुप्तिगृहे बन्धनं यथा स्यात् तथा गलचलनयोः कण्ठयोः पादयोः बन्धः बद्धान् तथा मृत्युभीत्या मरणभयेन वेपिन: कम्पमानान् । क इव-प्रीतः पृथ्वोपतिरिव, यथा प्रीतः तुष्टः पृथ्वीपतिः समन्तून् सापराधान् जन्तून् मोचयति ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org