SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ तृतीय संग शुक्लध्यानोपगतमिव सच्चन्दनस्याङ्गरागेस्तत्राद्राक्षं जगदिन महं भोगिनं योगिनं वा ॥ ३८ ॥ श्रेयः सारागम ० हे जलधर ! तत्र तस्मिन् गवाक्षे अहं राजीमती जगविनं जगत्स्वामिनं श्रीनेमिनं भोगिनं वा अथवा योगिनम् अद्राक्षम् अपश्यम् । किंरूपं जगदिनं - श्रेयः सारागमं श्रेयसा माङ्गल्येन सारः उत्कृष्टः आगम: आगमनं यस्य सतम्, तथा उपयमाद्यङ्गम् उपयमस्य विवाहस्य आदि प्रथमम् अङ्ग यः स तम्, - तथा अप्रयासनस्थं प्रधानसेनोपविष्टं, तथा नासान्यस्तस्तिमितनयनं नासिकाग्रन्यस्तनिश्चलनेत्रं, तथा पुण्यनेपथ्ययोगं पुण्यः पवित्रः नेपथ्यानां योगं संयोगो यस्य स तम् । पुनः कीदृशं - सच्चन्वनस्य प्रधानचन्दनस्य अङ्गरागं विलेपनैः कृत्वा, उत्प्रेक्ष्यते -- शुक्लध्यानोपगतमिव । किविशिष्टं योगिनं — श्रेयः सारागमं श्रेयसि मोक्षे सारः उत्कृष्टः आगम: सिद्धान्तो यस्य स तम्, तथा उपयमाद्यङ्गं यम १ नियम २ आसन ३ प्राणायाम ४ प्रत्याहार ५ ध्यान ६ धारणा ७ समाधि ८ अष्टौ -योगाङ्गानि, उपसमीपे यमादि अङ्गानि यस्य स तम्, तथा पुण्यनेपथ्ययोगं पुण्यमेव नेपथ्ययोगो यस्य स तम् । अग्रेतनानि विशेषणानि सदृशानि एव ॥ ३८ ॥ हे मेघ ! उस खिड़की पर कल्याण प्रधान आगमन वाले नासिका पर दृष्टि लगाए हुए, तथा शुभ्र पवित्र वेष वाले एक तरफ भोगी के रूप में देखा तो दूसरी तरफ पद्मासन पर बैठे नासिका पर दृष्टि लगाए हुए वे एक योगी के रूप में भी दिखे ॥ ३८॥ चढ़कर मैंने जगत्स्वामी श्रीनेमिनाथ को विवाह के प्रमुख अङ्ग हाथी पर सवार, चन्दन राग को लगाने से गौरवर्ण वाले , मोहोदन्वान्मम निशमनं तस्य जैवातृकस्य व्यातन्वत्याः कथमपि तथा तत्र चैधिष्ट पुष्टः । कोsयं काsहं क्व किस विदधामीति तद्वीचिमालालोलच्चेताः क्षणमवजगे नो यथा जाड्यमाप्ता ॥ ३९ ॥ ८९ मोहोदन्वान् • हे जलधर ! च पुनः मम राजीमत्याः तस्य श्रीनेमेः कथमपि - महता कष्टेन प्रच्छन्नत्वात् निशमनम् अवलोकनं व्यातन्वत्याः कुर्वत्याः सत्याः मोहोदन्वान् मोहसमुद्रः तथा तेन प्रकारेण पुष्टः सन् ऐषिष्ट वर्धतेस्म । किंरूपस्य तस्य- — जैवातृकस्य चिरञ्जीविनः, यथा अहं क्षणं मुहूर्त यावत् इति नो अवजगे - इति न ज्ञानवती । इतीति किं - अयं भगवान् श्रीनेमिः कः, अहं राजीमती का | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy