SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ८० जैनमेघदूतम् दुग्जाम्भोधि त्रिवशतटिनोत्यादिभिः सामवाक्यैः श्रीनेम्यर्थ गिति च स मद्वीजिनं मां ययाचे ॥२३॥ दुग्धं स्निग्धं • हे जलधर ! च पुनः सः कृष्णः झगिति शीघ्रं श्रीनेम्यर्थं मदृबोजिनं मां ययाचे मद्बीजिनः मत्पितुः सकाशात् मां ययाच इत्यर्थः । अत्र द्विकर्मकत्वात् षष्ठीस्थाने कर्मज्ञेयम् । कैः कृत्वा ययाचे - इत्यादिभिः वक्ष्यमाणैः सामवायैः सामवचनैः; इतीति कि हे उग्रसेन राजन् ! सिता शर्करा स्निग्धं सस्नेहलं दुग्धं समयतु प्राप्नोतु, रोहिणी पार्वणेन्दु पूर्णिमाचन्द्र समयतु, हैमी मुद्रा सुवर्णमयी मुद्रा उरुघृणि गुरुरश्मि मणि समयतु, कल्पवल्ली सुमेरुं समयतु, त्रिदशतटिनी गङ्गा दुग्धाम्भोष क्षीरसमुद्रं समयतु ।। २३ ।। जैसे शर्करा स्निग्ध दुग्ध से मिलती है, रोहिणी नक्षत्र पार्वणचन्द्र से मिलती है, स्वर्णमुद्रिका अधिक कान्तिवाली मणि से मिलती है, कल्पलता सुमेरु से मिलती है उसी प्रकार राजीमती श्रीनेमि से मिले " इस प्रकार नीति वाक्यों को कहते हुए श्रीकृष्ण ने शीघ्र ही मेरे पिता से मुझे. मांगा ॥ २३ ॥ तबुद्ध्वान्तर्मुदमबिभृतां श्रोसमुद्रः शिवा च प्रावृट्कालोदितमिव नवं त्वां सुराजा प्रजा च । तत्तत्कार्येष्वथ गणकतोऽवेत्य लग्नं विलग्नं प्राप्तोद्वाहोद्वह महमहःसंपदामक्रमेताम् ॥ २४ ॥ तबुद्ध्वा • हे जलधर ! श्रीसमुद्रः च पुनः शिवा श्रीशिवादेविनाम्नी राज्ञी तत् नेम्यर्थं मम याचनं बुद्ध्वा ज्ञात्वा मुदं हर्ष अविभूतां बिभृतः स्म । कमिव - त्वाम् इव, यथा सुराजा च पुनः प्रजा प्रावृटकालोदितं वर्षाकालोत्पन्नं नवं नूतनं त्वां बुद्ध्या मुदं विभृतः । हे मेघ ! अथ पुनः श्रीसमुद्रः श्रीशिवा च गणकत: ज्योतिषिकात् लग्नम् अत्य ज्ञात्वा तत्तत् कार्येषु तेषु तेषु सर्वलोकप्रसिद्धविवाहकार्येषु अक्रमेताम् उपक्रमं कुरुतः स्म । किविशिष्टं लग्नं प्राप्तोद्वाहोद्वह महमहः सम्पदां विलग्नं प्राप्तः उद्वाहः विवाहः येन सः प्राप्तोद्वाहः एवंविधः यः उद्वहः पुत्रः यः महः महोत्सवः तस्य या महः सम्पदः तेजोलक्ष्म्यः तासां विलग्नं मध्यम् ॥ २४ ॥ हे मेघ ! यह ( राजीमती की माँ को ) जानकर श्रो समुद्र एवं शिवा नाम की रानी मन ही मन उसी प्रकार प्रसन्न हुए जैसे वर्षा ऋतु में तुमको (मेघ को ) देखकर राजा और प्रजा प्रसन्न होते हैं । पुनः वे लोग ज्योतिषियों से पुत्र श्रीनेमि के विवाह सम्बन्धी लोक प्रसिद्ध वैवाहिक कार्यों के सम्पादन में लग गये ॥ लग्न को जानकर २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy