SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग लाग्नेऽभ्यासीभवति दिवसे दारकर्मण्यकर्माण्यारभ्यन्त प्रति यदुगृहं त्यक्तकृत्यान्तराणि । वासन्ताहे प्रतितरु यथा पल्लवानि प्रकामं पुष्पोत्पाद्यान्यखिलगलितप्रत्नपत्रान्तराणि ॥ २५ ॥ लाग्नेऽभ्यासी ० हे जलघर ! लाग्ने लग्नसम्बन्धिनि विवसे दिने अभ्यासी भवति सति समीपे भवति सति प्रतियदुगृहं यादवानां गृह-गृहं प्रति वारकर्मण्यकर्माणि दारकर्मणि विवाहे साधूनि योग्यानि दारकार्मण्यानि एवंविधानि कर्माणि आरभ्यन्ते प्रारम्यन्ते स्म । किरूपाणि दारकर्मण्यकर्माणि-त्यक्तकृत्यान्तराणि त्यक्तानि कृत्यान्तराणि अन्यकार्याणि येभ्यः तानि, यथा शब्द इवार्थे । कानि इव-पल्लवानि इव, यथा पल्लवानि वासन्ताहे वसन्तदिवसे प्रतितर तरं-तरुं प्रति प्रारभ्यन्ते । किरूपाणि पल्लवानि-प्रकामम् अतिशयेन पुष्पोत्पाखानि पुष्पाणि उत्पाद्यानि येषां तानि तथा अखिलगलितप्रत्नपत्रान्तराणि अखिलानि समस्तानि गलितानि पतितानि प्रत्नानि पुरातनानि पत्रान्तराणि अपराणि पत्राणि येभ्यः तानि ॥२५॥ ___ लग्न (विवाह) के दिन जैसे-जैसे नजदीक आने लगे वैसे ही सभी यादवों के घर में अन्य कार्यों को छोड़कर उसी प्रकार विवाह से सम्बन्धी कार्य होने लगे जैसे वसन्त के आने पर वृक्षों से पुराने पत्ते गिरने लगते हैं और नये पत्ते एवं पुष्प वृक्षों में लगने लगते हैं ।। २५ ।। हृद्यातोद्यध्वनितरसितः केकिकण्ठाभिरामक्षौमोल्लोचोन्नतघनततिर्दर्पणोत्कम्पशम्पः । रत्नश्रेणीखचितनिचितस्वर्णमङगल्यदामो दीप्तेन्द्रास्त्रः स्वनुकृतपयोधारमुक्तावचूलः ॥२६॥ पक्काशङ्कास्पदमृगमदो वर्यवैडर्यनद्धक्षोणीखण्डोन्मुखरुचिरहो मागधाधीतिकेकः । आसीत् पित्रा स्थपतिकतिनाऽनेहसा सद्ग्रहेणेवाम्भोदर्तुः प्रगुणिततमो मण्डपश्चौपयामः ॥ २७ ॥ हयातोय • पङ्काशङ्का ० ( इति युग्मम् ) हे जलघर ! च पुनः ओपयामः विवाहसम्बन्धी मण्डपः आसीत् बभूव । किंभूतो मण्डपः-पित्रा उग्रसेनेन स्थपति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy