SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ "जैनमेघदूतम् गामानषीद्वदनसवनं लक्ष्मणा लक्ष्मणास्ते लक्ष्मीर्येषां धनवनमिवान्योपयोगैककृत्या । स्वद्रूपश्रीजलधिजलवन्नोपजीव्या परैश्चेत् तल्लोके कैर्विरस इति नो तय॑से तद्वदेव ॥१०॥ गामानेषी ० हे जलघर ! लक्ष्मणा नाम्नी राज्ञो इति गां वाणी वदनसदनं आनषीत् आनिनये । इतीति कि-हे देवर ! लक्ष्मणाः लक्ष्मीवन्तः ते कथ्यन्ते । येषां लक्ष्मीः धनवनमिव मेघजलमिव अन्योपयोगैककृत्या भवति अन्येषाम् उपयोगः अर्थम् एकं केवलं कृत्यं कार्य यस्याः सा । हे देवर ! स्वपश्रीः चेत् यदि जलधिजलवत् परैः अन्यः उपजोव्या उपभोग्या न भविष्यति । तत् लोके मनुष्यलोके सहदेव जलधि जलवदेव केः जनः विरस इति नीरस इति नो तर्कयसे नो विचार्यसे, अपितु सर्वैरपि विचार्यसे ॥ १० ॥ लक्ष्मणा नाम की विष्णु पत्नी ने कहा वस्तुतः ये लोग ही लक्ष्मीवान (धनवान) हैं जिनकी लक्ष्मी मेघ के जल की तरह दूसरों के उपयोग के काम में आती है। यदि आपको रूपश्रो समुद्र के जल की तरह दूसरों के काम आने वाली नहीं है तो क्या आप भो संसार में उसी समुद्र की तरह विरस (शुष्कसमुद्र पक्ष में खार) नहीं कहे जाएगें? ॥ १०॥ उत्तस्थेऽथो सपदि गदितुं वाग्मिसीमा सुसीमा धीमन् ! पश्याकल इव गृहो न प्रणाय्यः प्रणाय्यः ।.. तत्त्वं तन्वन्ननु गुरुगिरा स्वद्वितीयां द्वितीयां प्राप्स्यस्यग्र्या विधुरिव कलाः सर्वपक्षे वलक्षे ॥११॥ उत्तस्थे . हे जलघर ! अयो लक्ष्मणाजपनान्तरं सुसीमा नाम्नी राज्ञो सपदि शीघ्र इति गवितु इति कथयितुं उत्तस्थे उद्यम चकार इत्यर्थः । किरूपा सुसीमावाग्मिनां वाचालानां सीमा मर्यादा या सा । इतोति किं-हे धीमन् ! हे देवर ! पश्य विलोकय गृही गृहस्थः प्रणाय्यः सन् निःकामः सन् अकल इव निःकल इव न प्रणाय्यः न असम्मतः अपितु असम्मत एव । तत् तस्मात्कारणात् हे देवर ! त्वं गुरुगिरा पूज्यजनवचनेन द्वितीयां कलत्रं स्वद्वितोयां आत्मनो द्वितीयां तन्वन् कुर्वन् ननु निश्चितं सर्वपमे सर्वस्वजनवर्गमध्ये अग्र्याः प्रधानाः कलाः महत्त्वविशेषान् प्राप्स्यसित । किरूपे सर्वपक्षे वलक्षे दोषाभावात् निर्मले। क इव-विधुरिव, यथा विधुः चन्द्रमा वलक्षे पक्षे धवले पक्षे द्वितीया द्वितोयानाम्नी तिथिं स्वद्वितीयां आत्मनो द्वितीयां कुर्वन् अग्रयाः कलाः प्राप्नोति ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy