________________
द्वितीय सर्ग पत्याकूतं यदुपतिगृहाः संविदाना मदानामायं बीजं निवसितसितश्लक्ष्णपत्तोर्णवाः । दृक्कोणेन त्रिभुवनमपि क्षोभयन्त्यः परीयुः कर्मापेक्षाः परमपुरुषं मोहसेनाः प्रभुतम् ।।४३॥ पत्याकूतं ० हे जलद ! यदुपतिगृहाः विष्णुपत्न्यः तं प्रभु श्रीनेमिनं परोयुः प्रदक्षिणीचक्रुः। किंरूपाः यदुपतिगृहाः--पत्याकूतं पत्यभिप्रायं संविदानाः संजानन्त्यः । पुनः किरूपा:--मदानामाचं बीजं अत्राविष्टलिङ्गत्वादेकत्वं नपुसकत्वं च तथा निवसितसितश्लक्ष्णपत्तोर्णवा: निवसितानि पारहितानि सितानि शुभ्राणि श्लक्ष्णानि सुकुमाराणि पत्तोर्णानि धौतवस्त्राणि यानि तः वाः वर्णयितुंयोग्याः तथा दृक्कोणेन नेत्रविभागनिरीक्षणेन त्रिभुवनमपि त्रिजगदपि क्षोभयन्त्यः चालयन्त्यः तथा कर्मापेक्षाः कर्मणां हास्यादि कार्याणां अपेक्षा वाञ्छा यासां ताः तथा मोहसेनाः मोहस्य सेनारूपायाः ताः । किरूपं तं--परमपुरुषं प्रधानपुरुष, अन्यापि कर्मापेक्ष्या मोहसेनाः परमपुरुषं आत्मानं परियन्ति । किंरूपा मोहसेना:-कर्मणा मोहनीयादीनां अपेक्ष्या यासां ताः ॥४३॥
यदुपति श्रीकृष्ण की पत्नियों ने जो श्वेत तथा कोमल साड़ियों को पहनने के कारण प्रशंसनीय थीं, तथा अपने कटाक्षों से सारे जगत् को भी हिला देने वाली थीं, विलासकर्म की और भी अधिक अपेक्षा करते हुए अपने पति के संकेत को जानकर मदों के मूलकारणरूप उन प्रभु श्रीनेमि को उसी प्रकार घेर लिया जैसे कर्म की अपेक्षा रखने वाली मोहसेना आत्मा को घेर लेती है ।।४३।।
तासां लीलोल्ललनजनिता गुन्दलन्ति स्म तोयध्वाना वीचिप्रचलनलिनीनायिकाः साध्वनृत्यन् । श्रोत्रापेयं मधुकरकुलैर्गीयते स्मातिरक्तं,
तस्येत्यासीदिव नवरसा शुद्धसङ्गीतरीतिः ।। ४४ ॥ तासां लीलो० हे जलधर ! उत्प्रेक्ष्यते-तस्य श्रोनेमेः इति नवरसाशुद्धसङ्गोतरोतिः नवाः नूतनाः रसाः शृङ्गारादयो यस्यां सा एवंविधा शुद्धा निर्दोषा सङ्गीतस्य नाट्यस्य आसीदिव इति, इति कि-तोयध्यानाः जलशब्दाः गुन्दलन्तिस्म मृदङ्गशब्दवत् आचरन्तिस्म ! किंरूपाः तोयध्वानाः-तासां यदुपत्नीनां लोलोल्ललनजनिताः लीलया उल्ललनं ऊर्वोत्पत्तनं तेन जनिताः निर्मापिताः । हे मेघ !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org