________________
५८
जैनमेघदूतम्
गर्जद्गर्जः फलमथ ललौ लीलयानाश्रवार्थ सारग्रन्थान् कविरिव सुधीः सद्गुणं सूक्तजातम् ॥ ३८ ॥
दर्श दशं ० हे जलद ! अथ वनप्रवेशानन्तरं बभ्रुः कृष्णो लीलया फलं लली, जातित्वादेकवचनं फलानिललावित्यर्थः । किंकृत्वा - फलित फलवान् फलितवृक्षान् दर्श दर्श दृष्ट्वा फलं किं कुर्वत् । पाकिम पीतलत्वं बिभ्रत् पाकेन निवृत्तं निष्पन्नं पाकिम एवं विधं पीतलत्वं पीतवर्णत्वं धरत् । कीदृशं सरसं - रससहितं अकुश स्थूलं । पुनः कीदृशं - वानशालाटवान्यत् वानं शुष्कं शालाटवं अपक्वसमूहः ततोअन्यत् पृथुक् किरूपो बभ्रुः --- गजंद्गर्जः गर्जत् गर्जारवं कुर्वन् गर्जो गजो यस्य सः । क इव -- सुधीः कविरिव यथा सुधीः विद्वान् कविः सांरग्रन्थान् प्रशस्य - शास्त्राणि दर्श दर्श सूक्तजातं सुभाषितस्य समूहं लाति । किरूपं सूक्तजातं - अनाश्रवार्थं अदोषांर्थं । पुनः किरूपं - सद्गुणं माधुर्यादिकाव्यदशगुणसहितम् ॥३८॥
इसके बाद गर्जना करते हुए हाथी वाले श्रीकृष्ण ने फले हुए वृक्षों को देख-देख कर पीले-पीले पके हुए रसीले बड़े-बड़े फलों को ऐसे तोड़ लिया जैसे विद्वान् कवि सारग्रन्थों के निर्दोष अर्थ वाले सूक्ति-समूह को ग्रहण कर लेता है ||३८||
त्यक्त्वा नागं दृढितपरमप्रेम हस्तेन हस्तं बद्ध्वा बन्धोगंज इव गजस्यैष बम्भ्रम्यमाणः । वीक्षाञ्चक्रे सरससरसीः सस्मितं पाणिपद्मै
राम्भीनर्भानिव कलरुतान् पत्रिणः खेलयन्तीः ॥ ३९ ॥
त्यक्त्वा नागं ० हे मेघ ! स एषः कृष्णः सरससरसीः सजलसरोवराणि वीक्षाञ्चक्रे अद्राक्षीत् । किविशिष्टः एषः - नागं त्यक्त्वा गजं परित्यज्य दृढितपरमप्रेम यथा भवति दृढीकृतं प्रधानस्नेहं यथा भवति तथा बन्धोः बान्धवस्य श्रीनेमे हस्तेन हस्तं बच्वा गज इव बम्भ्रम्यमाणः अत्यर्थं भ्रमन् । किंरूपाः सरसीः - पाणिपद्मे: समानानि पद्मानि तै हस्तरूपकमलैः सस्मितं सहास्यं यथा स्यात् तथा पत्रिणः पक्षिणः खेलयन्तीः क्रीडयन्तीः । किंरूपान् पत्रिणः -- आम्भीन् अम्भः सम्बन्धिनः अर्भानिव बालकानिव यथा कलरुतान् मधुरशब्दान् अन्या अपि स्त्रियः पाणिपद्मः सस्मितं यथा भवति तथा अर्भकान् खेलयन्ति ॥ ३९॥
हे मेघ ! उन श्रीकृष्ण ने हाथी के हाथ (सूँड़) को छोड़कर अपने प्रेम को और दृढ़ करते हुए, श्रीनेमि के हाथ से हाथ मिलाकर घूमते हुये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org