________________
जैनमेघदूतम् राजन्वत्यप्यवनिवलयेऽदभ्रदाहे निदाघऽबोभूयिष्टानलसविलसद्धर्मशर्माऽपि लोकः ॥३५।। संतापाढ्यः ० हे मेघ ! निदाघे उष्णकाले अवनिवलये पृथ्वीमण्डलेराजन्वत्यपि सति शोभनराजयुक्तेऽपि सति अनलसविलसद्धमंशर्माऽपि अनलसेन आलस्याभावेन विलसन् प्रसरन्, धर्मश च यस्यासौ एवंविधोऽपि सन् ईदृशः अबोभूयिष्ट अत्यर्थ बभूव । किरूपो जनः-संतापाढयः संतापेन क्लेशेन आढ्यः संतापाढ्यः तथा प्रखरकरभीः प्रखरेण तीक्ष्णेन करेण राजदेयभागेन भीः भयं यस्य स प्रखरकरभीः तथा जातकोषोदयेच्छ: जाता उत्पन्ना दोषस्य परावगुणस्य उदये इच्छा अभिलाषो यस्य सः। तृष्णापात्र तृष्गायाः लौल्यतायाः पात्र भाजनं तृष्णापात्रं तथा जडकृतरतिः जड़े मूर्खे कृता रतिः संतोषो येन स तथा दीर्घनिद्रां मरणं अभिलषतीत्येवंशीलो दोनिद्राभिलाषी इति विरोधः । अथ विरोधपरिहारमाह-~-सम्यक्तापेन धर्मणा आढयः प्रभरैः कठोरैः किरणैः भीः भयं यस्य जातदोषोदयेच्छ: राश्युदये इच्छा यस्य स तथा तृष्णापात्रं जडकृतरतिः जलयोरेक्यत्वात् जले पानीये कृता रतिर्येन स तथा दीर्घनिद्रां प्रचुरांनिद्रां अभिलषतीति दीघनिद्राभिलाषी। किविशिष्टे निदाधे--तीव्रदाहे ॥ ३५ ॥ ___ उत्साह पूर्वक अपना धर्म-कर्म करते हुए सुखशान्ति वाले लोग, देश में श्रेष्ठ राजा के रहते हुए भी अत्यधिक ताप वाले ग्रीष्म काल में सन्तप्त (सूर्य की) प्रखर किरणों से डरने वाले, (कठोर कर से डरने वाले) रात्रि होने की इच्छा वाले (ईर्ष्या द्वेषादि दोषों वाले) प्यासे जल के इच्छुक (लोभी) मूों के प्रेमी अधिक निद्रा चाहने वाले हो गये ।। ३५ ।। - ऊष्मोत्कर्षान्न सुखमपुषत् सौधमाध्यन्दिनोर्वी
लुकास्तोकोदयदरतितः सौधमूर्धाधिवासः ! . ...... दूरीकृत्य द्वयमिति जले केलिकामः सनेमिः .
शौरिौलोपवनमसरत्तूरसंहूतपौरः ॥३६॥ ऊष्मोत्कर्षात् ० हे मेघ ! सौषमाध्यन्दिनोर्वी नृपमन्दिरमध्यस्थितभूमिका ऊष्मोत्कर्षात् धर्माधिक्यात् सुखं न अपुषत् न पुपोष तथा लूकास्तोकोदयदरतितः लूकायाः अस्तोकाप्रचुरा उदयन्ती या अरतिः असमाधिः तस्याः सौधमूर्धाषिवासः धवलगृहोपरितनप्रदेशः सुखं न अपुषत् । हे मेघ ! शौरिः कृष्णः इति पूर्वो द्वयं दूरीकृत्यजले केलिकामः सनेमिः नेमिनाथसहितः सन् लीलोपवनं क्रीडावनं असरत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org