________________
५४
जैनमेघदूतम् श्रोतस्विन्याः सिकतिलतटेनाग्निमिन्धेन भानोर्भासां स्पर्शादपि पथि चरद्देहिनो देहिरे धिक् । यद्वाऽऽसक्तः प्रकृतिकुटिलास्वाचरेन्निम्नगासु प्रायोऽश्रेयो मृदुरपि न कः स्वल्पमप्यूष्मयोगे॥३२॥ श्रोतस्विन्याः • हे जलद श्रोतस्विन्याः नद्याः सिकतिलतटेन वालुकासंयुक्तपलिनेन कर्तृणां पथिमार्गे चरद्देहिनो चलत्प्राणिनः धिक् इति खेदे देहिरं दिग्धाः । किरूपेण सिकतिलतटेन-भानोः सूर्यस्य भासां स्पर्शादपि अग्निमिन्धेन अग्निवत् ज्वलता यहा अथवा क: पुमान् मृदुरपि सुकुमारोऽपि निम्नगासु आसक्तः सन् प्रायः स्वभावो येन अश्रेयो विरूपं न आचरेत् अपितु सर्वः कोऽपि आचरति । किंरूपासु निम्नगासु-प्रकृतिकुटिलासु। क्वसति-स्वल्पमपि स्तोकमपि ऊष्मयोगे सति तापमेलापके सति ननु यः स्वल्पमपि ऊष्मयोगे सति प्रतापयोगे सति स्वभाव. वक्रासु निम्नगासु नीचगामिनीषु स्त्रीषु आसक्तः सन् ( स्यात् ) यस्य अश्रेयसः समाचरणे किमाश्चर्य । अतः इदमपि तटं यदि तदासक्तं तद्रूपंवत् देहिनो दहति तत्कि आश्चर्य इति भावः ।। ३२ ।।
बालू से भरे नदी के तट ने सूर्य की किरणों के स्पर्श से गर्म होकर मार्ग में चलने वाले पथिकों (राहगिरों) को जो जलाया यह धिक्कार है । स्वभाव से ही कुटिल स्त्रियों में आसक्त कौन ऐसा भद्रपुरुष है जो थोड़ीसी भी गर्मी पाकर (अर्थात् स्त्रियों का साथ मिलने पर) अनुचित कार्य नहीं करता ? || ३२॥
लब्ध्वा तेजः खरतरकरैर्गोपतिः पीडयित्वा तोयस्थानान्यतिघनरसानाददानः प्रतापी। निन्ये हानि स्वजननलिनास्थानरूपाणि लोके प्राप्तश्वयं रमयति यतो गृद्धिबुद्धिर्विशेषात् ॥३३॥
लब्ध्वा तेजः • हे मेघ गोपतिः सूर्यः तेजो लब्ध्वा प्राप्य तोयस्थानानि सरोवरादीनि हानि विनाशं निन्ये प्रापयतिस्म । किंकृत्वा-खरतरकरैः अतिकठोरकिरणैः पीडयित्वा । गोपतिः किंकुर्वाण:-अतिधनरसान् अन्वर्थ जलानि आददानः गृहानः । किरूपाणि तोयस्थानानि-स्वजननलिनास्थानरूपाणि स्वजनप्रायकमलनिवासरूपाणि अन्योऽपि गोपतिः राजा तेजो लब्ध्वा स्वजनस्थानानि निजलोकनिवासान् खरतरकरः कठोरकरग्रहः पीडयित्वा हानि नयति इत्युक्तिलेशः । हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org