________________
जैनमेघदूतम् आगास्तेव स्वफलमुपदीकर्तुमात्मोपशायस्थायी भृत्यः समयगतिवित् सप्रतापस्तपोऽपि ॥२९॥ सख्युर्दोषात् • हे मेघ तपोऽपि ग्रीष्मऋतुरपि आगास्त आगतः । किं कर्तु, उत्प्रेक्ष्यते--स्वफलं उपदोकतु इव ढौकनिकां विधातुं इव । किरूप: तप:-- आत्मनः आत्मीयस्य उपशाये वारके स्थायी निश्चलशीलो भृत्यः सेवकः तथा समयगतिवित् समयस्य कालस्य गतिं वेत्तीति समय गतिवित् तथा सप्रतापः प्रकृष्टतापसहितः अन्योऽपिस्थायी भृत्य; ढोकनिकां कर्तुं आयाति सोऽपि समयगतिवत् भवति । समये प्रस्ताव गतिं गमनावसरं जानाति सप्रतापः प्रतापसहितो भवति तपोऽपि आगास्त परं । क्वसति-पुष्पकाले वसन्ते स्वयं स्वयमेव अपसृतेसति अपगतेसति, उत्प्रेक्ष्यते-ह्रियेव लज्जयव । किरूपे पुष्पकाले-कुसुमधनुषः कामस्य सख्युः मित्रस्य दोषात् अपराधात् तस्य ईशस्य श्रोनेमिनः अनिष्ट अप्रिये । किरूपस्य-तस्य शान्तशत्रोः शान्ता उपशमिताः शत्रवो यस्य स तस्य ।। २९ ॥
शान्त जनों के शत्रु काम का मित्र होने कारण जो स्वयं भी दोषी और नेमि का अप्रिय था, ऐसे वसन्त के मानो लज्जा के कारण स्वयं चले जाने पर समय की गति को जानने वाला प्रतापी ग्रीष्म (ऋतु) स्वामोसेवाशील भुत्य की तरह अपने फल का उपहार देने के लिए आ पहुंचा ।। २९ ॥
तेजोवीर्य पुरु रुचिपतेरु त्तरामेव काष्ठां श्रेयः पुष्टां परि विचरतः प्राप्तमैधिष्ट शश्वत् । तापोत्तप्तानपि तनुमतः प्रोणयन्ती तुषारै
तिानि प्रतिदिनमगाद्यामिनी तत्तु चित्रम् ॥३०॥ तेजीवोयं . हे जलद रुचिपतेः सर्यस्य उत्तरां एवं उत्तरनाम्नी काष्ठां दिशं प्रति विचरतः प्रतिगच्छतः सतः शश्वत् निरन्तरं पुरु प्रभूतं तेजोवीयं महोबलं प्राप्तं युक्तमेव ऐधिष्ट वर्द्धतेस्म । किंभूतां उत्तरकाष्ठां-श्रेयःपुष्टां श्रेयसा मङ्गलेन पुष्टा श्रेयः पुष्टा ता अन्योऽपि यः किल उत्तरां सर्वोत्कृष्टां काष्ठा क्रियाविशेषंप्रति विचरतिस्यात् तस्य तेजो बलं युक्तमेव वर्द्धते । हे मेघ च पुनः तच्चित्रं तदाश्चर्य यत् यामिनी रात्रिः तुषारैः शीतलवातैः पवनैः कृत्वा तापोत्तप्तान तापसन्तापितान्
१. भगवान् श्री नेमिशान्त हैं और काम शान्त शत्रु है इसलिए शान्तशत्रु का
मित्र होने के कारण वंसन्तऋतु भी सापराध है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org