SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् - वानस्पत्याः • ये वृक्षाः पुष्पैर्विना फलन्ति ते वानस्पत्याः उच्यन्तेवटोदुंबरप्लक्षादयः । हे जलद वानस्पत्या: कलकिलाशयैः मनोज्ञकुंपलैः कोशिकाभि: टीसिकाभिः प्रवालः पल्लवैः कृत्वा अराजन्, शुशुभिरे । कीदृशाः - उत्प्रेक्ष्यन्तेतस्य कामस्य तनुभृतो मूर्तिमन्तः रागलक्ष्मी: निवास इव । हे जलद च पुनः मलयमरुतः मलयाचलपवनाः प्रसस्तुः अप्रसरन् । किंरूपा मलयमरुत — उद्यमोह - प्रसवरजसा अम्बरं आकाशं पूरयन्तः उद्यन् उदयं प्राप्नुवन् मोह ममता येषु एवं विधान प्रसवानि पुष्पाणि तेषां रजसा रागेण आकाशं व्याप्नुवन्तः । पुनः किरूपाः -- अभोकाभीष्टा अभीकानां कामिनां अभीष्टा वल्लभाः अभीका तथा कामवाहाः स्वेच्छाचारिणः अथ च कामवाहाः कन्दर्पाश्वाः प्रसस्रुः । कीदृशाः कामवाहाः—उद्यन् मोहस्य मूर्छायाः प्रसव उत्पत्तिर्यस्मादेवंविधेन रजसा रेणुना अम्बरं पूरयन्तः तथा अभीकानां निर्भयानां अभीष्टाः अभीका ||२|| ३६ वसन्त के आने पर नये-नये कोपलों एवं सुन्दर-सुन्दर पत्तों से मुक्त वृक्ष राग पराग रूपी लक्ष्मी के साक्षात् निवास की तरह शोभित हो रहे थे । मन में राग (काम) को उत्पन्न करनेवाले फूलों की रज ( अर्थात् पुष्प-पराग कणों) से आकाश को व्याप्त करती हुई कामियों के लिए प्रिय, की हवायें स्वेच्छापूर्वक बह रही थीं अर्थात् ऐसा लग रहा था कि कामदेव के घोड़े स्वेच्छापूर्वक विचरण करते हुए काम (मोह) रूपी फूलों के राग (पराग) रूपी धूल से पूरे आकाशमण्डल को व्याप्त कर रहे हैं ? ॥२॥ मलयाचल रेजुः क्रीडौपयिकगिरयो राजतालीवनाढ्याः श्यामाः कामं किालितनगा निष्कमोचापरीताः । सन्नह्यन्तः स्मरनरपतेः केतनव्रातकान्ताः सिन्दूराक्ता इव करटिनो वर्ण्यसौवर्णवर्णाः ॥ ३ ॥ रेजुः क्रीडौ • हे जलद क्रीडौपयिकगिरयः रेजुः शुशुभिरे । क्रीडायाः औपयिकाः योग्याः क्रीडौपयिकाः गिरयः पर्वताः क्रीडौपयिकाश्च ते गिरयश्च क्रोडौपयिक गिरयः । कीदृशाः राजतालीवनाढ्याः राजतालीनां तालवृक्षाणां वनैः काननैः आढ्याः समृद्धाः तथा कामं अत्यर्थं किशलितनगाः पल्लवितवृक्षाः तथा निष्कलेन सुवर्णकदलीवेष्टिताः । उत्प्रेक्ष्यन्ते --- सन्नह्यन्तः सज्जीभूतः स्मर नरपतेः कामनरेश्वरस्य करिटिन इव गजा इव । किंरूपा गजाः - केतनव्राताः वैजयन्ती समूहमनोज्ञाः तथा सिन्दूराक्ता सिन्दूरस्वरडिताः तथा वयं सौवर्णवर्णाः वर्ण्यवर्णयितु योग्याः सौवर्णाः सुवर्णमय्य वर्णो गुडियेषां ते वर्ण्यसौवर्णवर्णाः ॥ ३ ॥ ―― mag Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy