________________
द्वितीयः सर्गः
एवं दिष्टे व्रजति जनयन्नध्वनीनाङ्गनानां विश्वस्तत्वं यमनियमभीदायको व्याप्तविश्वः । विश्वाधीशं प्रति रतिपतेरभ्यमित्रीणतस्तं प्रादुर्भूतः सुरभिरभितः किं नु नासीरवीरः ? ॥१॥
-
एवं दिष्टे हे जलधर एवं अमुना प्रकारेण दिष्टे काले व्रजतिसति सुरभिः वसन्तः अभितः समन्तात् प्रादुर्भूत प्रकटीबभूव । किंरूपः सुरभिः तु इति उत्प्रेक्ष्यते--- रतिपतेः कामस्य किं नासीरवीर : इव अग्रेसरवीरः इव सुरभिः । किं कुर्वन् – अध्वनीनाङ्गनानां पथिकस्त्रीणां विश्वस्तत्वं जनयन् उत्पादयन् । पुनः कीदृश: - यमनियमभोदायकः यमः द्वादशव्रतानि नियमाः सचित्तनिषेधाद्याः अभिग्रहाः तेषां भियं भयं ददातीति यमनियमभीदायकः तथा व्याप्तविश्वः व्याप्ता विश्वा धरित्री येन सः । किं विशिष्टस्य रतिपतेः तं विश्वाधीशं श्रीनेमिनं प्रति अभ्यमित्रीणतः संनह्य सम्मुखमागच्छतः । अन्योऽपि किल अग्रेसरवीरः पथिकाङ्ग नानां विश्वासतां उत्पादयति । नियमवत् कालवत् । नियमेन बन्धनविषये भयं ददाति विश्वं व्याप्नोति च ॥१॥
इस प्रकार विविध क्रीडाओं के द्वारा समय बीतने पर, जगदीश्वर श्री नेमिनाथ को जोतने के लिए, यम नियम को धारण करने वाले तपस्वियों ( व्रतियों) को भय देने वाला, कामदेव का सेनानी वसन्त ऋतु पथिकों की स्त्रियों के विश्वास को जाग्रत करता हुआ सभी ओर (हर जगह) उत्पन्न हुआ अर्थात् वसन्त ऋतु का आगमन हुआ । [ वसन्त के आने पर तपस्विजन भयभीत हो जाते हैं कि हमारी तपस्या में कहीं विघ्न न आ जाय ? दूर गये परदेशी लोगों की स्त्रियों के मन में विश्वास हो जाता है कि वसन्त ऋतु में मेरा पति अवश्य आएगा ॥] ॥ १ ॥
वानस्पत्याः कलकिशलयैः कोशिकाभिः प्रवालेस्तस्याराजन्निव तनुभृतो रागलक्ष्मीनिवासाः । उद्यम्मोह प्रसवरजसा चाम्बरं पूरयन्तोऽभीकाभीष्टा मलयमरुतः कामवाहाः प्रसत्रुः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org