________________
'३०
जैनमेघदूतम् को यदुकुल श्रेष्ठ श्रीकृष्ण श्रीनेमि के समक्ष फैलाकर उसी प्रकार खड़े हो गये जैसे मतवाला हाथी अपनो सूंड को फैलाता है ॥४३॥
हस्ते सव्ये स्पृशति किमपि स्वामिनोऽनेकपस्यानस्तास्कन्धं हरिभुजलता सा स्वयं स्तब्धितापि । मेरुं दण्डं क्षितितलमथ च्छत्रमाधातुमोष्टे यस्तस्यैतत्किमिति च सुरास्तत्र संप्रावदन्त ॥४४॥ हस्ते सव्ये. हे जलधर ! सा विस्तारिता हरिभुजलता कृष्णबाहुवल्ली स्तब्धितापि स्तब्धभावं प्रापिता। स्वयं स्वयमेव आस्कन्धं स्कन्धप्रदेशं यावत् आनंस्त नम्रीभूता। क्वसति-स्वामिनः श्रीनेमिनः सव्येहस्ते वामेकरे किमपि स्वल्पमपि स्पृशतिसति स्पर्शकुर्वतिसति । किं भूतस्य स्वामिनः-अनेकपस्य अनेकान् बह्वन् पातीति रक्षतीति अनेपकस्तस्य न तु अनेपकस्यगजस्य हस्ते शुण्डादण्डे किमपि स्तोकमपि स्पृशति अन्यापि लतास्तब्धितापि स्वयमेव आस्कन्धं वृक्षस्य स्थुडं यावत् आनम्यते स्वयं नम्रीभवतीत्यर्थः । हे जलधर अथ भुजानमनानन्तरं च पुनः तत्र योग्याभूमौ सुराः देवाः इति संप्रावदन्त एकत्र मिलित्वाप्रौढस्वरेण इति अकथयंत । इतीति किम्-भो लोकास्तस्य भगवतः श्रीनेमेः एतत्किमुच्यते यो भगवान् मेरुदण्डं क्षितितलं छत्र च आधातु कतु ईष्टे समर्थो भवति ॥४४॥ ___ सभी के रक्षक भगवान् नेमिनाथ के वाम हस्त से स्पर्श करते ही श्रीकृष्ण की अत्यन्त सुदृढ़ की हुई भुजलता कन्धे तक स्वयं ही झुक गई। इसको देखकर वहाँ देवताओं ने कहा कि जो मेरुपर्वत को दण्ड और पृथ्वी को छत्र बना सकता है, उसके लिए यह श्रीकृष्ण की भुजा को झुकाना क्या है अर्थात् कोई बड़ी बात नहीं है ॥४४॥
मद्दोर्दण्डोऽप्यहह सहसा नागलौरनम्यः श्रीशैवेयं प्रति कथमसौ पद्मतन्तूयते स्म । यद्वा न्यायोऽजनि विधिवशात्काकतालीयकोऽसौ तत्कृत्वाऽस्य प्रतिकृतिमहं तुल्यवीर्योऽप्यसानि ॥४५॥ मद्दोदंण्डौ ०आस्यच्छा० इति युग्मम् । हे जलधर ! त्रैलोक्येशः श्रीनेमिः वामंबाहुं दक्षिणेतरभुजं आयंस्त विस्तारयामास । किरूपं वामं बाहुं तृणितकुलिशं तृणितं तृणप्रायकृतं कुलिशं वज्र येन स तं । कस्य किं कुर्वतः-वामबाहुं आयंस्त देवकीनन्दनस्य कृष्णस्य आस्यच्छायैः मुख विकारैः कृत्वा इति निगदतः सतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org