________________
प्रथम सर्ग -
तस्मिन्नीशे धमति जलजं छिन्नमूलद्रवत्ते शस्त्राध्यक्षाः सपदि विगलच्चेतनाः पेतुरुर्ष्याम् आश्वं चाशु व्यजयत मनो मन्दुराभ्यः प्रणश्यन्मूढात्मेवामुचत चतुरोपाश्रयं हास्तिकं च ॥ ३६॥ तस्मिन्नीशे ० हे जलद ! तस्मिन् ईशे श्रीनेमिनि जलजं शङ्खं धमति सति पूरयन्ति सति इति सर्वत्र उक्तेरादौ योज्यं । शस्त्राध्यक्षाः शस्त्ररक्षकपुरुषाः सर्पाद शीघ्र उर्व्यां धरित्र्यां पेतुः अपतन् । किं भूताः शस्त्राध्यक्षा: - विगलच्चेतनाः विगलंती चेतना येषां ते विगलच्चेतताः । किंवत् - छिन मूलद्रुमवत् यथा छिन्नमूलद्रुमाः वृक्षाः सपदि उर्व्यां पतन्ति । च पुनः आश्वं अश्वसमूहः आशु शीघ्रं मन्दुराभ्यः वाजिशालाभ्यः प्रणश्यत् पलायनं कुर्वन् मनः मनश्चित्तं व्यजयत जिगाय अतिकृतपलायनत्वात् । च पुनः हास्तिकेन हस्तिसमूहेन चतुरोपाश्रयः चतुरागजशाला तद्रूप : उपाश्रयः स्थानं चतुरोपाश्रयं अमुचत त्यक्तः । केनेव - मूढात्मेव यथा मूर्खात्मना मूर्खेण चतुरोपाश्रयः दक्षस्थानं मुञ्चयति ॥ ३६ ॥
श्री नेमिनाथ द्वारा शंख बजाने के प्रभाव का वर्णन
श्रीनेमि प्रभु के शंख बजाते ही शस्त्राध्यक्ष, जड़ से कटे हुए वृक्ष की भाँति संज्ञाशून्य होकर, तत्काल पृथ्वी पर गिर पड़े । अश्वशाला छोड़कर
1
भागते हुए घोड़ों ने अपनी गति से मन को भी पराजित कर दिया, हाथियों ने भी गजशाला का उसी प्रकार त्याग कर दिया, जिस प्रकार मूर्ख विद्वान् का आश्रय छोड़ देता है अर्थात् भयवश विद्वानों की सभा से चला जाता है || ३६ ||
हारावाप्तीरदधत हृदीवानने पौरनार्यो योद्धुर्गुच्छच्छदवदपतन् फाल्गुनेऽस्त्राणि पाणेः । प्राकारायाण्यपि विजगलुर्गण्डशैला इवाद्र:
पूच्चक्रे च प्रतिरुतनिभाभूरिभीरुज्जयन्तः ॥ ३७॥
२५
हारावाप्ती ० हे जलधर ! पौरनार्यः नगरवनिताः । हृदीव हृदयस्थल इव - आनने मुखे हारावाप्तः अदधत् हारस्य अवाप्तयः प्राप्तयो हारावाप्तयः । ताः पक्षे हा इति रावस्य शब्दस्य आप्तयो हारावाप्तयः ताः । हे मेघ योद्धः सुभटस्य पाणे: करात् अस्त्राणि अपतन् । किंवत् -- फाल्गुने फाल्गुनमासे गुच्छस्य वृक्षस्य छदानि पर्णाः निपतन्ति । हे मेघ प्राकारास्याण्यपि दुर्गाग्रविभागा अपि अब्र े: पर्वतस्य
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org