________________
प्रथम सर्ग -
२३ तत्र प्रेक्षाकुतुकनिहितप्रेक्षणः पाञ्चजन्यं शङ्ख प्रेक्ष्य श्रुतिसुखचिकीर्यावदादित्सतासौ । तावत्क्षत्ता जलशयमृते पूर्यते नायमन्यैरित्थं संज्ञविनयविनमन्मौलिविज्ञप्तवांस्तम् ॥३३॥ तत्र प्रेक्षा ० हे जलधर ! असो श्रोनेमिः प्रेक्षाकुतुकनिहितप्रेक्षणः सन् प्रेक्षाकुतुकेन विलोकना कौतुकेन निहिते न्यस्ते प्रेक्षणे प्रकृष्ट नेत्रे येन स । तत्र शस्त्रश्रेणीमध्ये पाञ्चजन्यं पाञ्चजन्यनामानं शङ्ख प्रेक्ष्य विलोक्य यावत् आदित्सत् ग्रहीतुमैच्छत । किंरूपौऽसौ-श्रुतिसुखचिकोः श्रुत्योः कर्णयोः सुखं विकीर्षति इति सुखचिकीः कर्णायाः सुखं कर्तुमिच्छन्नित्यर्थः। तावत्क्षत्ता शस्त्रागाररक्षकपुरुषः विनयविनमन्मौलिः विनयेनविनमन् नम्रीभवन् मौलिमस्तकं यथा स्यात् तथा संजुः योजितपदाञ्जलिः सन् इत्थं अमुनाप्रकारेण तं भगवन्तं श्रीनेमिनं विज्ञप्तवान् । अमुना केन प्रकारणेत्याह-हे नेमे अयं पाञ्चजन्यं शङ्खजलशयं नारायणं ऋते विना अन्यैः पुंभिः न पूर्यते न पूरयितुं शक्यात ।।३३॥
वहाँ शस्त्रागार में पाञ्चजन्य शंख को देखकर, कौतूहलवश शंख पर निहित दुष्टिवाले एवं कानों को सुख देने की इच्छा वाले अर्थात् शंख ध्वनि सुनने की इच्छा वाले श्री नेमिनाथ ने ज्यों ही उसे ग्रहण करना चाहा त्योंहीं द्वारपाल ने विनय पूर्वक पञ्चांगनमस्कारमुद्रा से युक्त (संजुः) होकर उनसे कहा कि यह शंख श्रीकृष्ण के अतिरिक्त किसी अन्य द्वारा नहीं बजाया जा सकता ॥३३॥
तच्चाकर्ण्य स्मितसितमुखः सोदरस्तेजसांशोरभ्याशस्थैरनिमिषतमैविस्मयाद्वीक्ष्यमाणः । आनन्त्यौजाः स लघु जलज लीलयाऽधत्त हस्ते भूरिस्फूर्जत्परिचितगुणं रोपयामास चास्ये ॥३४॥ तच्चाकर्ण्य • हे जलधर ! च अन्यत् सः श्रीनेमिः लीलया लघु शीघ्रं जलजं शङ्ख हस्तेऽवत्त धृतवान् । च पुनः आस्ये मुखे आरोपयामास आरोपयतिस्म । किंरूपः सः-तत् क्षत्त्युक्तं आकर्ण्य स्मितसितमुखः स्मितेन हास्येन सितं उज्जवलंमुखं यस्य सः । पुनः किंरूपः-तेजसा महसा अंशोः सूर्यस्य सोदरः भ्रातृसमानः । पुनः किंरूपः-अभ्याशस्थैः समीपस्थैः पुरुषः अनिमिषतमैः अत्यर्थ मेषोन्मेघरहितः सभिः विस्मयात् आश्चर्यात् वीक्ष्यमामः विलोक्यमानः तथा आनन्त्यौजाः आनन्त्यं अनन्तं ओजो बलं यस्य सः । किरूपं जलज-भूरिस्फूर्जत् परिचितगुणं भूरिः हैम्नः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org